________________
वक्षस्कारः-३
१८१
इति,तेजः-परासहनीयः पुण्यः प्रतापःअभेदोपचारेणतद्वान्'तेजसांहिनवयःसमीक्ष्यते' इत्यादिवत्, आयुर्बलं-पुरुषायुषं तद्यावद्वीर्यंतेनयुक्तः, तेन त्रुटिताङ्गप्रमाणंबोद्धव्यं, नरदेवस्यैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुषिरं-निश्छिद्रं अत एव धननिचितं-निर्भरभृतं यल्लोसलं तदिव नाराचवज्रऋषभं प्रसिद्धया वज्रऋषभनाराचं संहननं यत्र तं तथाविधं देहं धरन्तीत्येवंशीलः । झषो-मीनः १ युगं-शकटाङ्गविशेषः २ भृङ्गारो-जलभाजनविशेषः ३ वर्द्धमानकं ४ भद्रासनं ५ शबो-दक्षिणावर्त्तः ६ छत्रं-प्रतीतं७ व्यजनं-पदैकदेशे,पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'तेलुग्वा' इत्यनेन वालपदलोपः, चामरं आर्षत्वात् स्त्रीत्वं तेन व्यनीतिनिर्देशः ८ पताका ९ चक्रं १० लाङ्गलं ११ मुशलं १२ रथः १३ स्वस्तिकं १४ अकुशः १५ चन्द्र १६ आदित्या १७ग्नयः प्रतीताः १८ यूपो-यज्ञस्तम्भः १९ सागरः-समुद्रः २० इन्द्रध्वज २१ पृथ्वी २२ पद्म२४ कुञ्जराः २४कण्ठ्याः , सिंहासनं-सिंहाङ्कितं नृपासनं २५ दण्ड २६ कूर्म २७ गिरिवर २८तुरगवर २९ मुकुट ३० कुण्डलानि ३१ व्यक्तानि, नन्द्यावर्तः-प्रतिदिग्नवकोणकः ३२ स्वस्तिकः ३६।
एतेषांद्वन्द्वः, तत एतानि प्रशस्तानि-माङ्गल्यानिसुविभक्तानि-अतिशयेन विविक्तानि यान्यनेकानि-अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो-विस्मयकरः करचरणयोर्देशभागोयस्य सतथा, अत्रपदव्यत्ययःप्राकृतत्वात् तीर्थकृतामिव चक्रिनामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि, यदाह निशीथचूर्णी-'पागयमणुआणं बत्तीसं लक्खणानि अट्ठसयं बलदेववासुदेवाणं अट्ठसहस्संचक्वट्टितित्थगरणं ति, उर्ध्वमुखं भूमेरुदगच्छतामडराणामिव येषांतानिऊर्ध्वमुखानि यानि लोमानि तेषां जालं-समूहो यत्र स तथा अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात् ।सुकुमालस्निग्धानि-नवनीतपिण्डादिद्रव्याणि तानीव मृदुकानि आवतै:-चिकुरसंस्थान विशेषैःप्रशस्तानि मङ्गल्यानि दक्षिणावर्तानीत्यर्थःयानिलोमानि तैर्विरचितो यः श्रीवत्सो- महापुरुषाणां वक्षोऽन्तर्वर्ती अभ्युन्नतोऽवयवस्ततः पूर्वपदैन कर्मधारयस्तेन छन्नं-आच्छादितं विपुलं वक्षो यस्य स तथा, देशे-कोशलदेशादौ क्षेत्रेतदेकदेशभूतविनीतानगय्यार्दी सुविभक्तो-यधास्थानविनिविष्टावयवोयो देहस्तं धरतीत्येवंशीलः, तत्कालावच्छेदेन भरतक्षेत्रेन भरत-चक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य-उद्गच्छतो रवेर्ये रश्मयः-किरणास्तैर्बोधितं-विकासितं यद्वरकमलं-प्रधानसरोजं हेमाम्बूजमित्यर्थस्तस्य विबुधो-विकस्वरो यो गर्भो-मध्यभागस्तद्वद्वर्णशरीरच्छविर्यस्य स तथा।
हयपोसनं-'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इव कोशः सुगुप्तत्वात् तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः-चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात्, पद्मप्रतीतं उत्पलं-कुष्ठं कुन्दजातियूथिकाःप्रतीताः वरमचम्पको-राजचम्पकः नागपुष्पंनागकेसरकुसुमं सारङ्गानि-प्रधानदलानि अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः-कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः-शरीरपरिमलो यस्य स तथा, तद्धितलक्षणादिप्रत्ययात् रूपसिद्धि, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः, ते चेमे॥१॥ 'अव्यङ्गो १ लक्षणापूर्णो २, रूपसम्पत्तिभृत्तनुः ३ ।
अमदो ४ जगदोजस्वी ५, यशस्वी ६ च कृपालुहत्७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org