________________
१७८
॥ १७ ॥
॥१८॥
॥१९॥
1120 11
॥२१॥
॥ २२ ॥
॥२३॥
॥ २४ ॥
॥२५॥
॥२६॥
112011
॥२८॥
॥२९॥
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
Jain Education International
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ३ / ५४
नानाभूमिगवाक्षाढ्यं, विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीदः पुरान्तरा ।। सामन्तमण्डलीकानां, नन्द्यावर्त्तादयः शुभाः । प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥ अष्टोत्तरसहस्र तु, जिनानां भवनान्यभुः । उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यथ ॥ चतुष्पथप्रतिबद्धा, चतुरशीतिरुच्चकैः । प्रासादाश्चार्हतां रम्या, हिरण्यकलशैर्बभुः ॥ सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुवत् । कौबेर्य्या सपताकानि, चक्रे स व्यवहारिनाम् ।। दक्षिणस्यां क्षत्रियाणां सौधानि विविधानि च । अभूवन् सास्त्रगाराणि, तेजांस्यवनिवासिनाम् ।। तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त घुसद्यानसमानविशदश्रियः ॥ सामान्यकारुकाणां च बहि प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः ॥ अपाच्यां च प्रतीच्यां च, कारुकाणां बभुर्गृहाः । एकभूमिमुखास्त्रयस्त्रित्रभूमिं यावदुच्छ्रिताः ।। अहोरात्रेण निर्माय, तां पुरीं धनदोऽ किरत् । हिरण्यरत्नधान्यानि वासांस्याभरणानि च ॥ सरांसि वापीकूपादीन् दीर्घिका देवतालयान्. अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ विपिनानि चतुर्दिक्षु, सिद्धार्थ श्रीनिवासके । पुष्पाकारं नन्दनं चाभवन् भूयांसि चान्यतः ॥ प्रत्येकं हेमचैत्यानि, जिनाना तत्र रेजिरे । पवनाहतपुष्पालिपूजितानि द्रुमैरपि ॥ प्राच्यामष्टापदोऽपाच्या महाशैलो महोन्नतः । प्रतीच्यां सुरशैलस्, कौबेय्यार्मुदयाचलः ॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोचैर्जिनावासपवित्रिताः ।। शक्राज्ञया रत्नमयीमयोध्यापरनामतः । विनीतां सुरराजस्य, पुरीमिव स निर्ममे ।। यद्वास्त्यजना देवे, गुरौ धर्मे च सादराः । स्थैर्यादिभिर्गुणैर्युक्ताः, सत्यशौचदयान्वितः ॥
For Private & Personal Use Only
www.jainelibrary.org