________________
१६५
,खरपरुषा:
‘तीसेण’मित्यादि, तस्यां समायामुत्तमकाष्ठाप्राप्तायां उत्तमावस्थागतायामित्यर्थः परमकष्टप्राप्तायां वा, भरतस्य कीदृशः - कः आकारभावस्य - आकृतिलक्षणपर्यायस्य प्रत्यवतारः - अवतरणं आकारभावप्रत्यवतारः प्रज्ञप्तः ?, भगवानाह - गौतमेत्यामन्त्रय वक्ष्यमाणविशिष्टः काला भविष्यति, कीश इत्याह- 'हाहाभूताः ' हाहा इत्येतस्य शब्दस्य दुःखार्त्तलोकेन करणं हाहोच्यते तद्भूतः --प्राप्तो यः कालः स हाहाभूतः, भाम्भां इत्यस्य दुःखार्त्तगवादिभि करणं भम्भोच्यते तद्भूतो यः स भम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरी सा चान्तः शून्या ततो भम्भेव यः कालो जनक्षयात्तच्छून्यः सभम्भाभूत इत्युच्यते, कोलाहल ईहार्त्तशकुनसमूहध्वनि तं भूतः - प्राप्तः, कोलाहलभूतः समानुभावेन-कालविशेषसामर्थ्येनच, चकारोऽत्र वाच्यान्तरदर्शनार्थः, णमित्यलङ्कारे, अत्यन्तकठोरा धूल्याच मलिना ये वातास्ते तथा दुर्विषहाः - दुस्सहाः व्याकुला असमञ्जसा इत्यर्थः भयङ्कराः चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः, संवर्त्तकाश्च- तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति, इहास्मिन् काले अभीक्ष्णं पुनः पुनर्धूमाविष्यन्ते च - धूममुद्वमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात् सर्वतो रजस्वला - रजोयुक्ताः, अत एव रेणुना - रजसा कलुषा - मलिनास्तथा तमः पटलेन - अन्धकारवृन्देन निरालोका - निरस्तप्रकाशा निरस्तष्टिप्रसरा वा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिकं अहितं वा अपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-प्रक्ष्यन्ति तथैव सूर्यास्तस्यन्ति, तापं मोक्ष्यन्तीत्यर्थः, कालरौक्ष्येण शरीररौक्ष्यं तस्माच्चाधिकशीतोष्णपराभव इति ।
7
वक्षस्कारः - २
अथ पुनस्तत्स्वरूपं भगवान् स्वयमेवाह - 'अदुत्तर' मित्यादि, अथापरं च हे गौतम! अभीक्ष्णं - पुनः पुनः अरसा - मनोज्ञरसवर्जितजला ये मेघास्ते तथा विरसा - विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते - क्षारमेघाः - सर्जादिक्षारसमानजलोपेतमेधाः खात्रमेघाः - करीषसमानरसजलोपेतमेघाः ‘खट्टमेहे' ति क्वचिद् दृश्यते तत्राम्लजला मेघाः अग्निमेघा अग्निवद्दाहकारिजला इत्यर्थः विद्युत्प्रधानाएव जलवर्जिता इत्यर्थः विधुन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा मेघाः विषमेघाः - जनमरणहेतुजलाः अत्र असनिमेहा इत्यपि पदं क्वचिद् दृश्यते तत्रायमर्थ-करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं -न यापनाप्रयोजकमुदकं येषां ते तथा, असमाधानकारिजला इत्यर्थः, कचिद्- 'अपिबणिञ्जोदगा' इति तत्रापातव्यजला इत्यर्थः एतदेव व्यनक्ति- 'व्याधिरोगवेदनोदीरणापरिनामसलिलाः ' व्याधयः- स्थिराः कुष्ठादयो रोगाः - सद्योघातिनः शूलादयस्तदुत्थाया वेदनाया उदीरणाअप्राप्तसमये उदयप्रापणं सैव परिनामः - परिपाको यस्य सलिलस्य तत्तथा, तदेवंविधं सलिलं येषां ते तथा, अत एवामनोज्ञपानीयकाः चण्डानिलेन प्रहतानां - आच्छोटितानां तीक्ष्णानां वेगतीनां धाराणां निपातः स प्रचुरो यत्र वर्षे स तथा तं वर्षं वर्षिष्यन्ति करिष्यन्तीत्यर्थः,
ग्रन्थान्तरे तु एते क्षारमेघादयो वर्षशतोनैकविंशति-वर्षसहस्रप्रमाणदुष्पमाकालातिक्रमे वर्षिष्यन्तीति, अथ तेन वर्षणेनारसमेघादयः किं करिष्यन्तीत्याह- येन वर्षणेन करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्य- न्तीति सम्बन्धः, भरतवर्षे ग्रामाद्या आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपदं - मनुष्यलोकं तथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका-उरभ्रास्तान् तथा खचरान् - वैताढ्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org