________________
वक्षस्कारः-२
१५३
__ 'अरहओण'मित्यादि, ऋषभस्य द्विविधाअन्तं भवस्यकुर्वन्तीतिअन्तकरा-मुक्तिगामिनस्तेषां भूमि-कालः कालस्य चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा-युगानि-- पञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयुगादीनितानिचक्रमवर्तीनीतितत्साधम्यादये क्रमवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यवसानलक्षणयाऽभेदप्रतिपत्या युगान-पट्टपद्धतिपुरुषा इत्यर्थः तैःप्रमिताअन्तकरभूमियुगान्तकरभूमिरिति, पर्यायः-तीर्थकृतः केवलित्वकालस्तदपेक्षयाऽन्तकरभूमि, कोऽर्थः ? ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं प्रवृत्तमिति, तत्र युगान्तकर- भूमिर्यावदसङ्ख्यातानि पुरुषाः-पट्टाधिवढास्ते युगानि-पूर्वोक्तयुक्त्या पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया,
ऋषभात् प्रभृति श्रीअजितदेवतीर्थं यावत् श्रीऋषभ- देववंशजानां नृपाणां चतुर्दशलक्षप्रमितानां क्रमेण प्रथमतः सिद्धिगमनंतत एकस्य सर्वार्थसिद्धप्रस्तटगमनमित्याधनेकरीत्या अजितजिनपितरंमर्यादीकृत्यनन्दीसूत्रवृत्तिचूर्णिसि-द्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन्प्रतीत्यावसातव्योऽयंपुण्डरीकगणधरादीन् प्रतीत्येति विशेषः । तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत्केवलज्ञानस्य पर्यायो यस्य स तथा, एवंविधे ऋषभे सति अन्तं-भवान्तमकार्षीद्-अकरोत् नार्वाक्कश्चिदपीति, यतो मरुदेवा प्रथमः सिद्धः, सा तु भगवत्केवलोत्पत्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । __ अथ जन्मकल्याणकादिनक्षत्राण्याह
मू. (४५) उसमेणं अरहा पंचउत्तरासाढे अभीइछठे होत्था, तंजहा-उत्तरासाढाहिं चुए चइत्ता गम्भवकंते उत्तरासाढाहिं जाए उत्तरासादाहिंरायामिसेअंपत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए उत्तरासाढाहिं अणंते जाव समुप्पमे, अभीइणा परिनिव्वुए।
दृ.उसमेणमित्यादि, ऋषभोऽर्हन् पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तराषाढानक्षत्रचन्द्रेण भुज्यमानंयस्यसतथाअभिजिनक्षत्रंषष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वाअभिजिनक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु यस्य स तथा, उक्तमेवार्थ भावयति, तद्यथाउत्तराषाढाभिर्युतेचन्द्रेइति शेषः, सूत्रेबहुवचनंप्राकृतशैल्या, एवमग्रेऽपिच्युतः सर्वार्थसिद्धनाम्नो महाविमानानिर्गत इत्यर्थः, च्युत्वा गर्भ व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्णवानित्यर्थः १, जातो-गर्भवासान्निष्कान्तः २, राज्याभिषेकंप्राप्तः३, मुण्डो भूत्वा-अगारं मुक्त्वा अनगारितांसाधुतांप्रव्रजितः प्राप्त इत्यर्थः, पञ्चमीचात्र क्यब्लोपजन्या ४, अनन्तं यावत् केवलज्ञानं समुत्पन्न ५, यावत्पद संग्रहः पूर्ववत्, अभीचिना युते चन्द्रे परिनिर्वृतः-सिद्धिं गतः ६। ।
ननुअस्मादेवविभागसूत्रबलादादिदेवस्यषट्कल्याणकी सभापद्यमाना दुर्निवारेतिचेत्, न, तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते, न ह्ययं षष्ठकल्याणकत्वेन भवता निरूप्यमानो राज्याभिषेकस्ताशस्तेन वीरस्य गर्भापहारइव नायंकल्याणकं, अनन्तरोक्तलक्षणायोगात्, नचतर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमति वाच्यं, प्रथमतीर्थेशराज्याभिषेकस्य जीतमिति शक्रेण क्रियमाणस्य देवकार्यत्वलक्षणसाधम्येण समाननक्षत्रजाततयाचप्रसङ्गेन तत्पठनस्यापि सार्थकत्वात्, तेन सामननक्षत्रजातत्वे सत्यपिकल्याणकत्वाभावेनानियतवक्तव्तया क्वचिद्राज्याभिषे
Jain Education International
For P
tonal
For Private & Personal Use Only
www.jainelibrary.org