________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/४४
सदाचरणेन फलं - प्रक्रमान्मुक्तिलक्षणं यस्मात् एवंविधो यो निर्वाणमार्गः - असाधारणरत्नत्रयरूपस्तेनात्मानं भावयतः केवलवरज्ञानदर्शनं समुत्पन्नमित्यन्वयः, तत्रानन्तमविनाशित्वात् अनुत्तरं सर्वोत्तमत्वात् निव्यार्घातं कटकुड्यादिभिरप्रतिहतत्वात् निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांशकलितत्वात् पूर्णचन्द्रवत् केवलं असहायं 'नट्ठमि उ छाउमत्थिए नाणे' इति वचनात् परं प्रधानं ज्ञानं च दर्शनं चेति समाहारद्वन्द्वे एकवद्भावः ततः पूर्वपदाभ्यां कर्मधारयः, तत्र सामान्यविशे, भयात्मके ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्यावबोधरूपमिति ।
१५०
अत्रायमाशयः - दूरादेव तालतमालादिकंतरुनिकरं विशिष्टव्यक्तिरूपतयाऽनवधारितमवलोकयतः पुरुषस्य सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपं चकास्ति तद्दर्शनं 'निर्विशेषं विशेषाणां ग्रहो दर्शन मिति वचनात्, यत्पुनस्तस्यैव प्रत्यासीदतस्तालतमालादिव्यक्तिरूपतयाऽवधारितं तमेव तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटं रूपमाभाति तज्ज्ञानं, ननु भवतु नाम इत्थमनुभवसिद्धे ज्ञाने छद्मस्थानां विशेषग्राहकता दर्शने च सामान्यग्राहकता, परं केवलिनो ज्ञानक्षणे सामान्यांशाग्रहणाद्दर्शनेन च विशेषांशग्रहणाभावाद् द्वयोरपि सर्वार्षविषयत्वं विरुध्यते, उच्यते, ज्ञानक्षणे हि केवलिनां ज्ञाने यावद्विशेषान् गृह्णति सति सामान्यं प्रतिभातमेव, अशेषविशेषराशिरूपत्वात् सामान्यस्य, दर्शनक्षणे च दर्शने सामान्यं गृह्णति सति यावदविशेषाः प्रतिमाता एव, विशेषानालिङ्गितस्य सामान्यस्याभावात्, अत एव 'निर्विशेषं विशेषाणां ग्रहो दर्शन' मित्युक्तमनन्तरोक्तग्रन्थे, कोऽर्थः ? -ज्ञाने प्रधानभावेन विशेषा गौणभावेन सामान्यं दर्शने प्रधानभावेन सामान्यं गौणभावेन विशेषा इति विशेषः ।
समुत्पन्नं- सम्यक् क्षायिकत्वेनावरणदेशस्याप्यभावात् उत्पन्नं, प्रादुर्भूतमित्यर्थः, उत्पन्केवलस्य यद्भगवतः स्वरूपं तत्प्रकटयति- 'जिणे जाए' इत्यादि, जिनो- रागादिजेता, केवलं श्रुतज्ञा - नाद्यसहायकं ज्ञानमस्यास्तीति केवली, अत एव सर्वज्ञो विशेषांशपुरस्कारेण सर्वज्ञाता सर्वदर्शी - सामान्यांशपुरस्कारेण सर्वज्ञाता, नन्वर्हतां केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्त्यसमय एव क्षीणत्वेन युगपदुत्पत्तिकत्वेनोपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां 'सव्वन्नू सव्वदरिसी' इति सूत्रं यथा ज्ञानप्राथम्यसूचकमुपन्यस्तं तथा सव्वदरिसी सव्वन्नू इत्येवं दर्शनप्राथम्यसूचकं किं न ?, तुल्यन्यायत्वात् नैवं, 'सव्वाओ लद्धीओ सागारोवउत्तस्स उववज्र्ज्जति, नो अनागारोवउत्तस्स' इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीति ज्ञापनार्थत्वादित्यमुपन्यासस्येति, छद्मस्थानां तु प्रथमे समये दर्शनं द्वितीये ज्ञानमिति । उक्तविशेषणद्वयमेव विशिनष्टि - सनैरयिकतिर्यगनरामरस्य पञ्चास्तिकायात्मकक्षेत्रखण्डस्य उपलक्षणाद् लोकस्य अलोकस्यापि नभः प्रदेशमात्रात्मक क्षेत्रविशेषस्य पर्यायान् क्रमभाविस्वरूपविशेषान् जानाति केवलज्ञानेन पश्यति केवलदर्शनेन, पर्यायानियुक्ते द्वयमपि ग्राह्यं, नहि पर्याया द्रव्य पियुता भवेयुर्द्रव्यं वा पर्यायवियुतं, तेनाधेयमाधारमाक्षिपतीति, अन्यथा आधेयत्वस्यैवानुपपत्तेः यथाऽऽकाशस्य, न हि आकाशं काप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात्, अथवा सामान्यत उक्तं पर्यायाणां ज्ञानं व्यक्त्या निरूपयन्नाह - तद्यथा
'आगतिं' यतः स्थानादागच्छन्ति विवक्षितं स्थानं जीवाः 'गतिं' यत्र मृत्वोत्पद्यन्ते 'स्थितिं'
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International