________________
१४२
जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् २/४३ सुन्दरत्वातिशयाता मनोऽमास्ताभि उदाराभिः शब्दतोऽर्थतश्च 'कल्याणाभिः' कल्याणाप्तिसूचकाभिः शिवाभिः' निरुपद्रवाभिः शब्दार्थदूषणोज्झिताभिरित्यर्थः 'धन्याभिः' धनलम्भिकाभिः 'मङ्गल्याभिः' मङ्गले-अनर्थप्रतिघातेसाध्वीभिः सश्रीकाभिः-अनुप्रासाद्यलक्षारोपेतत्वात् सशोभामिः 'हृदयगमनीयामि' अर्थप्राकट्यचातुरीसचिवत्वात् सुबोधाभिः, 'हृदयप्रह्लादनीयाभिः' हृदयगतकोपशोकादिग्रन्थिविद्रावणीभिः, उभयत्र कर्तर्यनट् प्रत्ययः, कर्णमनोनिवृतिकरीभिः अपुनरुक्ताभिरिति च स्पष्टं, अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभि अथवा अर्थानांइष्टकार्याणां शतानि याभ्यस्ता अर्थशतास्ता एवार्थशतिकाः, स्वार्थे इक् प्रत्ययः ।
अनवरतं-विश्वामाभावात् 'अभिनन्दयन्तश्च' जय जीवेत्यादिभणनतः समृद्धिमन्तं भगवन्तमाचक्षाणाः अभिष्टुवन्तश्च भगवन्तमेवेति, ‘जय जयेति भक्तिसम्भ्रमे द्विवचनं, नन्दतिसमृद्धो भवतीति नन्दः तस्यामन्त्रणमिदं, इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय त्वं जगनन्द ! जगत्समृद्धिकर? जय जय भद्र ? प्राग्वत्, नवरं भद्रः-कल्याणवान् कल्याणकारी वा, धर्मेणकरणभूतेन न त्वभिमानलज्जादिना अमीतो भवपरीसहपसर्गेभ्यः, पराकृतत्वात् पञ्चम्यर्थे षष्ठी, परीषहोपसर्गाणांजेता भवेत्यर्थः, तथाक्षान्त्या न त्वसामथ्यार्दिनाक्षम-सोढा भव, 'भयं आकस्मिक 'भैरव' सिंहादिसमुत्थं तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीति न पूर्वविशेषणान्तः पातेन पौनरुक्त्यं, धर्मे-प्रस्तुते चारित्रधर्मे अविघ्नं-विघ्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थत्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह_ 'तए ण' मित्यादि 'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रैः शरेणिस्थितभगवद्दिक्षामात्रया व्यापृतनागरनेत्रवृन्दैः प्रेक्ष्यमाणः २-पुनः पुनरवलोक्यमानः, आभीक्ष्णये द्विवचनं सर्वं, एवं सर्वत्र तावद्वक्तव्यं यावनिर्गच्छति-'यथोपपतिके' एवं यथा प्रथमोपाने चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नभः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यंमध्येन-मध्यभागेन इत्यर्थ निर्गच्छति, 'सुखं सुखेने' त्यादिवन्मध्यंमध्येनेति निपातः, औपपातिकगमश्चायं
"हिययमालासहस्सेहिं अभिनंदिञ्जमाणे २ मनोरहमालासहस्सेहिं विच्छिप्पमाणे २ वयणमालासहस्सेहिं अभिथुव्वमाणे २ कंतिरूवसोहग्गगुणेहिपस्थिन्जमाणे २ अंगुलिमालासहस्सेहि दाइजमाणे २ दाहिणहत्येणंबहूणंनरनारीसहस्साणंअंजलिमालासहस्साईपडिच्छमाणे २ मंजुमंजुणा घोसेण पडिबुझेमाणे २ भवनपंतिसहस्साई समइच्छमाणे २ तंतीतालतुडिअगीअवाइअरवेणं महुरेणय मनहरेणं जयसङ्ग्घोसविसएणं मंजुमंजुणा घोसेणंपडिबुझेमाणे २ कंदर-गिरिविवर कुहरगिरिवरपासाउद्धघण भवणदेवकुलसिंघाडगतिग चउक्कचच्चरआरामुजाण काणण सहापवापएसदेसभागे पडिंसुआसयसंकुलं करेंते हयहेसिअहत्थिगुल-गुलाइअरहघणधणाइयसद्दमीसिएणं महया कलकलरवेणं जनस्स महरेण पूरयंतो सुगंधवरकुसुमचण्ण- उव्विद्धवासरेणुकविलं नभं करेंते, कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते समंतओ खुभिअचक्कवालंपउरजणबालवुद्धपमुइअतुरिअपहाविअविउल न्ति, आउलपदमारभ्य निर्गच्छति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org