________________
१००
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३३ णिसिलागवरसीधुवरवारुणिसुजायफ्तपुष्फफलचोअणिज्जाससारबहुदव्वजुत्तिसंभारकालसंधिआसवा महुमेरगरिट्ठाभदुद्धजातिपसन्नतल्लगसताउखजूरिमुद्दिआसारकाविसायणसुपक्कखोअरसवरसुरा वण्णगंधरसफरिसजुत्ता बलवीरिअपरिणामा मञ्जविही बहुप्पगारा तहेव ते मत्तंगावि दुमगणा अनेगबहुविविहवीससापरिणयाए मञ्जविहीए उववेया फलेहिं पुण्णा वीसंदंति कुसविकुसविसुद्धरुक्खमूला जाव छन्नपडिच्छन्ना सिरीइ अईव उवसोभेमाणारचिटुंतीति अत्र व्याख्या
इदंचसंकेतवाक्यंअपरेष्वपिव्याख्यास्यमानकल्पद्रुमसूत्रेषुबोध्यं, चन्द्रस्येवप्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत्सीधु च २ वरा चासौ वारुणी च वरवारुणी तथा सुजातानां-सुपरिपाकागतानांपुष्पानांफलानांचोयस्य-गन्धद्रव्यस्य योनिर्यासोरसस्तेन साराः तथा बहूनां द्रव्याणामुपबृंहणकानां युक्तयो-मीलनानि तासां सम्भारः-प्राभूत्यं येषुतेतथाकाले-स्वसवोचिते सन्धितदगभूतानां द्रव्याणांसन्धानं योजनमित्यर्थः तस्माज्जायन्ते इति कालसन्धिजाः, एवंविधाश्च ते आसवाः, किमुक्तं भवति ?-पत्रादिवासकद्रव्यभेदादनेक प्रकारोह्यासवः पत्रासवादिरनेन निर्दिष्टो भवतीति, ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, मधुमेरकौमद्यविशेषौरिष्ठाभा-रिष्ठरलवर्णाभायाशास्त्रन्तरेजम्बूफलकलिकेतिप्रसिद्धादुग्घजातिआस्वादतः क्षीरसशी प्रसन्ना-सुराविशेषः तल्लकोऽपि-सुराविशेषः शतायुर्नाम या शतवारं शोधितापि स्वस्वरूपं न जहाति सारशब्दस्य प्रत्येक योजनात् ख—रसारनिष्पन्न आसवविशेषः खजूंरसारः, मृद्वीका-द्राक्षा ततसारनिष्पन्न आसवो मृद्वीकासारः कपिशायनं-मद्यविशेषः सुपकःपरिपाकागतो यः क्षोदरसः-इक्षुरसस्तन्निष्पना वरसुरा, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रन्तरो लोकतो वा यथास्वरूपं वेदितव्याः, कथंभूता एते मद्यविशेषा इत्याह-वर्णेन प्रस्तावादतिशायिनाएवं गन्धेन रसेन स्पर्शेनचयुक्ता-सहिता बलहेतवोवीर्यपरिमाणा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते बहुप्रकाराः।
तथैवेतिपदं भिन्त्रक्रमेण योजनात्, तथास्वरूपेणैव न त्वन्याशेन मद्यविधिनामद्यप्रकारेणोपपेतास्तेमत्ताड्गा अपिद्रुमगणा इतिभावः,अन्यता दृष्टान्तयोजनान सम्यग्भवतीति, किंविशिष्टेन मद्यविधिनेत्याह-अनेको-व्यक्तिभेदाबहु-प्रभूतं यथा स्यात्तथा विविधो जातिभेदतो नानाविध इतिभावः, सचकेनापिकल्पपालादिना निष्पादितोऽपि सम्भाव्यते ततआह-विनसयास्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादित इति, तत पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात्, ते च मद्यविधिनोपपेता न तालादिवृक्षा इवाङ्गुरादिषु किन्तु फलादिषु, तथा चाह-फलेषु पूर्णा मद्यविधिभिरिति गम्यं, सप्तम्यर्थे तृतीया प्राकृतत्वात्, विष्यंदन्ति-श्रवन्ति सामथ्यार्ततानेवानन्तरोदितान् मद्यविधीन्, क्वचिद्विसद्वन्तीति पाठः, तत्रविकसन्तीति व्याख्येयं, किमुक्तं भवति? - तेषां फलानि परिपाकागतमद्यविधिभि पूर्णानि स्फुटित्वा २ तान् मद्यविधीन् मुञ्चन्तीति भावः ।
अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमाह-'तीसे णं समाए तत्थ २ तहिं २ बहवे भिंगंगाणामदुमगणापन्नत्ता समणाउसो! जहासेवारगघडगकलसकरगककरिपायंचणिउदंकवद्धणिसुपइट्टगविट्ठरपारीचसकभिंगारकरोडिसरगपत्तीथालणल्लगचवलिअअवमद दवारगविचित्तवट्टगमणिवद्दगसुत्तिवारुपीणयाकंचणमणिरयणभत्तिचित्ता भायणविहीयबहुप्पगारा तहेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org