________________
वक्षस्कारः - १
रानुयानि श्री मालस्येव ममानौचितीमञ्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयत्नेन प्रायस्तत्तव्प्राचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपभेवेदं व्याख्यानं विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥
119 11
तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत उक्तम्“तस्स फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपओयणाई च वच्चाई | " ति
तत्र प्रेक्षावतां प्रवृत्तये तस्य-अनुयोगस्य फलमवश्यं वाच्यं, अन्यथाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरन्निति, तत्र द्विधा - कर्तुः श्रोतुश्च, एकैकमपि द्विधां - अनन्तरं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेघसामनुग्रहश्च श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्ति, यदाह
119 11
'
"सर्वज्ञोक्तोपदेशेन, यः सत्वानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छिवम् ॥” -तथा- “सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥”
॥ २ ॥
तथा योगः - सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवल श्रद्धानुसारिणः प्रति, स चैवम् - अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशाङ्गयामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशयश्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति अथवा 'शास्तुः प्रामाण्ये शास्त्रप्रामाण्य' मिति आद्यसम्बन्धस्यैव प्रामाण्यग्रहार्तमपरसम्बन्धनिरूपणं, न हि विदितपरमतत्वाः सत्वानुग्रहैकप्रवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवत्ताभङ्गादिति, अथवा योगः - अवसरः, ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर इति ?, उच्यते, उपाङ्गस्वाङ्गार्थानुवादकतयाऽङ्गस्य सामीप्येन वर्त्तमानाद्य तदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिकाइमा गाथाः
119 11
॥२ ॥
७
॥ ३ ॥
"तिवरिसपरियायस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्सय सम्मं सूअगडं नाम अंगंति ॥ दसकप्पव्यवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवा ओवि अ अंगे ते अट्ठवासस्स ।। दसवासस्स विवाहो एगारसवासगस्स य इमे ऊ । खुड्डियविमाणभाई अज्झयणा पंच नायव्वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org