SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-३९ दक्षिणार्द्धउत्कर्षकः-उत्कृष्टोऽष्टादशमुहूर्त्तप्रमादिवसोभवति तदा उत्तरार्द्धऽपि उत्कृष्टोऽष्टादशमुहूर्तप्रमाणो दिवसः, उत्कृष्टो ह्यष्टादशमुहूर्तप्रमाणो दिवसः सर्वाभ्यन्तरमण्डलचारित्वे, तत्रच यदैकः सूर्य सर्वाभ्यन्तरमण्डलचारी भवति तदा अपरोऽप्यवश्यं तत्समया श्रेण्या सर्वाभ्यन्तरमण्डलचारी भवतीति दक्षिणार्द्धउत्कृष्टदिवस-सम्भवेउतराद्धेऽप्युत्कृष्टदिवससम्भवः,यदा उत्तरार्द्ध उत्कृष्टोऽधादशमुहूर्तप्रमाण दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य । _ 'पुरस्थिमपञ्चत्थिमे गंति पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहूर्ता रात्रिर्भवति, सर्वाभ्यन्तरे मण्डले चारं चरतोः सूर्ययोः सर्वत्रापि रात्रेादशमुहूर्तप्रमाणाया एव भावात्, तया 'जया ण'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस् पर्वतस्य पूर्वस्यां दिशि उत्कर्षकःउत्कृष्टोऽष्टादशमुहूर्तो दिवसोभवति तदामन्तरपर्वतस्यपश्चिमायामपि दिशिउत्कृष्टोऽष्टादशमुहूर्तो दिवसः, कारणं दक्षिणोत्तरार्द्धगतं प्रागुक्तमनुसरणीयं, यदा च मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ‘उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च जधन्या द्वादशमुहूर्ता रात्रि, अत्रापि कारणं पूर्वपश्चिमार्द्धरात्रिगतं प्रागुक्तमनुसरणीयं, 'एव'मित्यादि, एवम्-उक्तेन प्रकारेण एतेनानन्तरोदितेन गमेन आलापकगमेन वक्ष्यमाणमपि नेतव्यं, किं तद् वक्ष्यमाणमित्याह- 'अट्ठारसमुहुत्ताणंतर'इत्यादि, यदा मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहूर्तानन्तरः-सप्तदशभ्यो मुहूर्तेभ्य ऊर्ध्वं किञ्चिन्यूनाष्टादशमुहूर्तप्रमाणो दिवसः तदा पूर्वपश्चिमयोदक्षिणोत्तरार्द्धयोर्वा सातिरेकद्वादशमुहूर्ता रात्रिर्भवतीति, एवं शेषाण्यपि पदानि भावनीयानि, सूत्रपाठोऽपि प्रागुक्तालापकगमानुसारेण स्वयंपरिभावनीयः, सचैवम्-'ताजयाणंजंबुद्दीवेदीवेदाहिणड्डेअट्ठारसमुहुत्तानंतरे दिवसे हवइ तयाणं उत्तर विअट्ठारसमुहुत्ताणंतरेदिवसे भवइ, जयाणं उत्तरड्ढे अट्ठारसमुहुत्तानंतरे दिवसे हवइ तयाणं जंबुद्दीवे दीवेमंदरस्सपब्वयस्स पुरच्छिमपञ्चस्थिमेणंसातिरेगदुवालसमुहुत्ता राई भवइ, ता जया णं जंबुद्दवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे हवइतयाणंपच्चस्थिमेणं अट्ठारसमुहुतानंतरे दिवसेहवइ, जयाणंपञ्चत्थिमेणविअट्ठारसमुहुत्तानंतरे दिवसे भवइतयाणंजंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं साइरेगदुवालसमुहुत्ता राई भवइ, एवं सप्तदशमुहूर्तदिवसादि-प्रतिपादका अपि सूत्रालापका भाव० । "ता जया ण मित्यादि तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणाद्धे वर्षाणां-वर्षाकालस्य प्रथमः समयः प्रतिपद्यते-भवति तदा उत्तरार्द्धऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्ध उत्तरार्द्ध च सूर्ययोश्चारभावात्, यदाचोत्तरार्द्ध वर्षाकालस्यप्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चत्थिमे णं' पूर्वस्यामपरस्यां च दिशि ‘अनंतरपुरक्खडे'त्तिअनन्तरं-अव्यवधानेन पुरष्कृतः-अग्रेकृतोयः सोऽनन्तरपुरस्कृतोऽनन्तरं द्वितीय इत्यर्थः, तस्मिन् ‘कालसमयंसित्ति समयः सङ्केतादिरपि भवति ततस्तदव्यवच्छेदाधु कालग्रहणं, कालश्चासौ समयश्च कालसमयः, तत्र वर्षाकालस्य प्रथमः समयः प्रतिपद्यते-भवति, किमुक्तं भवति?-यस्मिन् समये दक्षिणार्होत्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतितस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्चांकालस्य प्रथमः समयो भवति। "ता जया ण' तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्या पूर्वस्या दिशि वर्षाकालस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy