________________
प्राभृतं ४, प्राभृतप्राभृतं
सूर्यप्रकाशः प्रसरति, ततः समतलभूभागस्याधो योजनसहनंतदूर्ध्वं चाप्टौ योजनशतानीत्युभयमीलनेऽटादश योजनशतानि तिर्यक् स्वविमानात् पूर्वभागेऽपरभागेच प्रत्येकं तापयतः सप्तचत्वारिंशद्योजनसहस्राणि द्वेयोजनशते त्रिषटे–त्रिषष्ट्यधिकेएकविंशतिंच षष्टिभागान् योजनस्य
प्राभृतं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे चतुर्थप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(प्राभृतं-५) वृ. तदेवमुक्तं चतुर्थं प्राभृतं, सम्प्रति पञ्चममारभ्यते-तस्य चायमर्थाधिकारः 'कस्मिन् लेश्या प्रतिहते ति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (३६) ता कस्सि णं सूरियस्स लेस्सा पडिहताति वदेजा ?, तत्थ खलु इमओ वीसं पडिवत्तीओ पन्नत्ताओ,
तत्थेगे एवमाहंसु ता मंदरंसिणं पव्वतंसि सूर्यस्स लेस्सा पडिहता आहिताति वदेजा, एगे एवमाहंसु १, एगेपुण एवमाहंसुताभ्मेसंसिणंपव्वतंसि सूरियस्स्सलेस्सा पडिहताआहितातिवदेना, एगेएवमासु २ । एवं एतेणं अभिलावेणं भाणियव्वं, ता मनोरमंसिणंपव्वयंसि, तासुदंसणंसि णं पव्वयंसि, तासयंपभंसिणं पव्वतंसि ता गिरिरायसिणं पव्वतंसि ता रतणुच्चयंसिणं पव्वतंसि ता सिलुच्चयंसि णं पव्वयंसि ता लोअमझंसि णं पव्वतंसि ता लोयणाभिंसिणं पव्वतंसि ता अच्छंसिणं पव्वतंसिता सूरियावत्तंसिणं पव्वतंसि सूरियावरणंसिणं पव्वतंसि ता उत्तमंसिणं पव्वयंसि ता दिसादिस्सिणं पव्वतंसि ता अवतंसंसिणं पव्वतंसिताधरणिखीलंसिणं पव्वयंसि ता धरणिसिंगंसि णं पव्वयंसि ता पव्वतिंदसि णं पञ्चतंसि णं पव्वतंसि ता पव्वयरायसि णं पव्वयंसि सूरियस्स लेसा पडिहता आहिताति वदेजा, एगे एवमाहंसु।
वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति जाव पव्वयराया वुच्चति, ताजे णं युग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठाविणं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगताविणं पोग्गला सूरियस्स लेस्सं पडिहणंति।।
वृ. 'ता कस्सि ण मित्यादि, ता इति पूर्ववत्, अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरतीति कस्मिन् स्थाने लेश्या प्रतिहता आख्याता इति वदेत् ?, अयमिह भावार्थ-इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं, यतः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले जम्बूद्वीपगतं तापक्षेत्रमायामतः पञ्चचत्वारिंशद्योजनसहनाप्रमाणमेवाख्यातमेतच्च सर्वाभ्यन्तरमण्डलगे सूर्ये लेश्याप्रतिहतिमन्तरेणनोपपद्यते, अन्यथा निष्क्रपति सूर्वेतप्रतिवद्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्वबाह्ये मण्डले चारं चरति सूर्ये हीनमायामतो भवेत् न च हीनमुक्तमतोऽवसीयते कापि लेश्या प्रतिघातमुपयाति ततस्तदवगमाय प्रश्न इति, एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपत्तयस्तावतीरुपदर्शयति
___'तत्थे'त्यादि, तत्र-सूर्यलेश्याप्रतिहतिविषये खल्विमा विंशतिप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा 'तत्र' तेषां विंशतेः परतीथिकानां मध्य एक एवमाहुः-मन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org