________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ चतुरशीति२ किञ्चिन्यूनानियोजनानि टपरितनेषुतुमण्डलेष्वधिकानिअधिकतराणि उक्तप्रकारेण निर्वेष्टयन् २ तावदवसेयं यावत्सर्ववाह्यमण्डलमुपसंक्रम्य चारं चरति।
___ “ता जया णमित्यादि, तत्र यदा णमिति पूर्वत् सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि त्रीणि शतानि पञ्चदश च षष्टिभागान् योजनस्य गच्छति, तथाहि-यस्मिन्मण्डले परिरयपरिमाणंत्रीणि योजनशतसहस्राणि अधादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि तत एतस्य प्रागुक्तयुक्तिवशात् षष्टया भागो ह्रियते, ततो लब्धं यथोक्तमत्र मुहूर्तगतिपरिमाणमिति, अत्रैव दृष्टिपथप्राप्ततापरिमाणमाह___तयाण मित्यादि, तदा-सर्वबाह्यमण्डलचारकाले इहगतस्य मनुष्यस्य-जातावेकवचनमिहगतानां मनुष्याणां एकत्रिंशता योजनसहारष्टभिरेकत्रिंशदधिकैर्योजनशतैस्त्रशताच षष्टिभागैर्योजनस्य सूर्य शीघ्रंचक्षुस्पर्शमागच्छति, तदा ह्यस्मिन् मण्डलेचारंचरतिसूर्येद्वादशमुहूर्तप्रमाणो दिवसो भवति, दिवसस्य चार्द्धन यावन्मानं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्तानामर्द्ध षट् मुहूर्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य तत् षड्मिर्गुण्यते, ततो यथोक्तमत्र दृष्टिपथप्राप्तपरिमाणं भवति, अत्रापि दिवसरात्रि-प्रमाणमाह-- तयाण'मित्यादि, सुगमम् । ‘से पविसमाणे इत्यादि, ससूर्य सर्वबाह्यमण्डलादुक्त-प्रकारेणाभ्यन्तरंमण्डलं प्रविशन् द्वितीयंषण्मासमाददानो द्वितीयस्यषण्मासस्यप्रथमेऽहोरात्रे बाहिरानंतरं ति सर्वबाह्यान्मण्डलादनन्तरमर्वाक्तनंद्वितीयं मण्डलमुपसंक्रम्य चारंचरति 'ताजयाण'मित्यादि तत्रयदासर्वबाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन मुहूर्तेन पञ्च पञ्च योजनसहमाणि त्रीणि चतुरुत्तराणियोजनशतानि सप्तपञ्चाशतं च षष्टिभागान्योजनस्य गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणंतिम लक्षाअष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां ततोऽस्य प्रागुक्तयुक्तिवशात्षष्टया भागो ह्रियते, हृतेचभागेलब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह___'तया णमित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणामेकत्रिंशतायोजनसहनैनवभि षोडशैः-पोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशताचषष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सल्कैः षष्टया चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रभाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः, तेषांचार्द्धषट्मुहूर्ताएकेन मुहूर्तेकषष्टिभागेनाभ्यधिक, ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपिमुहूर्ता एकषष्ट्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानि त्रीणि शतानि सप्तषष्टयधिकानि एकषष्टिभागानांततःसर्वबाह्यादर्वाक्तनेतस्मिन् द्वितीये मण्डलेयत्परिरयपरिमाणं त्रीणि लक्षाणिअष्टादश सहस्राणिद्वेशतेसप्तनवत्यधिके तदेभिस्त्रभिशतैः सप्तषष्टयधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टषष्टिर्लक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यदिकानि एतस्य एकषष्टया गुणितया षष्टया भागो ह्रियते, हृते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानिषोडशोत्तराणि शेष-मुद्धरति चतुर्विंशतिशतानिएकोनचत्वारिंशदधिकानि न चातो योजनान्यायान्ति ततः,षष्टिभागानयार्थमेकषष्टया भागो ह्रियते, लब्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org