________________
सूर्यप्राप्तिउपाङ्गसूत्रम् २/३/३३ मण्डलेष्वतिदेशमाह- ‘एवं खल्वि'त्यादि, एवं-उक्तेन प्रकारेण खलु-निश्चितमेतेनअनन्तरोदितेनोपायेन शनैः शनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेण निष्क्रमन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरंमण्डलं प्रागुक्तप्रकारेणसंक्रामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद्भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा
“कत्तो रत्तिं मुद्धे पाणियसद्धा सउणयाण' ततोऽयमर्थ-मुहूर्तगतौ अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णानिश्चयतःकिञ्चिदूनानभिवर्द्धयमानः २ 'पुरिसच्छाय'मिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात्प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि द्वितीया सप्तम्यर्थे, ततोऽ- यमर्थ-तस्यामेकैकस्मिन् मण्डले चतुरशीति २ । 'सीयाई ति शीतानि किञ्चिन्यूनानीत्यर्थः, योजनानिनिर्वेष्टयन् २-हापयन्नित्यर्थ इदंच स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं-त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये विषयहानौ ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलात्तृतीयंयन्मण्डलंतत आरभ्य यस्मिन् २ मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलसङ्ख्यया षटत्रिंशद् गुण्यते, तद्यथा-सर्वाभ्यन्तरान्मण्ड-लातृ तीये मण्डले एकेन चतुर्थेद्वाभ्यांपञ्चमेत्रिभिर्यावत्सर्वबा मण्डले द्व्यशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते,२ सति यद्भवति तेन हीना पूर्वमण्डलगता दृष्टिपथप्राप्तता-तस्मिन् विवक्षितेमण्डले दृष्टिपथप्राप्तता द्रष्टव्या, अथव्यशीतियोदनानीत्यादिकस्य ध्रुवराशेः कथमुत्पत्ति?
-उच्यते, इह सर्वाभ्यन्तरे नण्डले दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहसााणि द्वे शते त्रिषष्टयधिके योजनानामेकविंशतिश्चषष्टिभागा योजनस्य एतच्च नवमुहूर्तगम्यं, ततएकस्मिन् मुहूर्तेकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्टया गुण्यन्ते, जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि तैर्भागो ह्रियते, लब्धा षडशीतिर्योजनानि पञ्चषष्टिभागा योजनस्य एस्यचषष्टिभागस्य एकषष्टिधा छिन्नस्य तस्काश्चतुर्विंशतिर्भागा: र्वस्मात् २ चमण्डलादनन्तरान्तरे मण्डले परिरयपरिमाणचिन्तायामप्टादश २ योजनानि व्यवहारतः परिपूर्णानि वर्द्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहूर्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादशाटादशषष्टिभागा योजनस्य प्रवर्द्धमाना द्रष्टव्याः, प्रतिमुहूर्तेकषष्टिभागंचाष्टादश एकस्य,षष्टिभागस्यसत्का एकषष्टिभागाः,सर्वाभ्यन्तरानन्तरे च द्वितीये मण्डले सूर्योदृष्टिपथप्राप्तो भवति नवभिर्मुहूर्तेकषष्टिभागेनोनैर्यावन्मानं क्षेत्रंव्याप्यते तावतिस्थितस्ततोनव मुहूर्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च तेभ्य एक रूपमपनीयते, जातानि पञ्च शतानि अष्टाचत्वारिंशदधिकानि तैराटादशगुण्यन्ते,जातान्यष्टानवति शतानिचतुःषष्टिसहितानि तेषां षष्टिभागान-यनार्थमेकषष्टया भागो ह्रियते, लब्धमेकषष्टयाधिकं शतं षष्टिभागानां त्रिचत्वारिंशदेकषष्टिभागस्य सत्का एकषष्टिभागाः, तत्र विंशत्यधिकेन षष्टिभागशतेन द्वे योजने लब्धे पश्चादेकच्चारिंशत्षष्टिभागा अवतिष्ठन्ते, एतच्च द्वे योजने एकचत्वारिंशतषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रचत्वारिंशदेकषष्टिभागा इत्येवं रूपं प्रागुक्तात् षडशीतियोजनानि पञ्च षष्टिभागा योजनस्य एकषष्टिभागस्य सत्काश्चतुर्विंशतिरेकषटिभागा इत्येतस्माच्छोध्यते,शोधिते च तस्मिन् स्थितानि पश्चात् त्र्यशीतिर्योजनानि त्रयोविंशतिषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org