SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं - ८ पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतत्सर्वबाह्यमण्डलगतविष्कम्भा-यामपरिमाणात् शोध्यते, ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणं भवति, तथा त्रीमि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे योजनशते सप्तनवत्यधिके ३१८२९७ परिक्षेपतः प्रक्षिप्तं, तथाहि-पूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा यजनस्येति त्रुटयन्ति, पञ्चानां योजनानां पञ्चत्रिंशतश्चैकषष्टिभागानां परिरये सप्तदश योजनानि अष्टात्रिंशच्चैकषष्टिभागा योजनस्य भवन्ति परं सूत्रकृता व्यवहानयमतेन परिपूर्णान्यष्टादश योजनानि विवक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात् त्रीणि लक्षाणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि इत्येवंरूपादष्टादश योजनानि शोध्यन्ते, ततो यथोक्त-मधिकृतमण्डलपरिरयपरिमाणं भवति ।'तया णं राइंदियाणं तह चेच' त्ति तदा रात्रिन्दिवं रात्रिदिवसौ तथैव वक्तव्यौ, तौ चैवम्- 'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्टिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे हवइ दोहि एगट्टिभागमुहुत्तेहि अहिए' इति । 'से पविसमाणे' इत्यादि, ततः स सूर्यस्तस्मादपि द्वितीयस्मान्मण्डलात्प्रागुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्ववाह्यान्मण्डलादवाक्तनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तत्र यदा सूर्य सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसंक म्यचारं चरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् च योजनशतानि चत्वारिंशदधिकनि द्विपञ्चाशञ्चैकषष्टिभागा योजनस्य आयामविष्कम्भेनआयामविष्कम्भाभ्यां तथाहि पूर्वस्मान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेकं योजनशतसहस्रं षट् शतानि चतुष्पञ्चाशदधिकानि षड्विंशतिश्चैकषष्टिभागा योजनस्येत्येवंरूपात्पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलमविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिकं परिक्षेपतः प्रक्षिप्तं । ४९ तथाहि - प्राक्तनमण्डलादिदं मण्डलं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य विष्कम्भतो हीनं पञ्चानां योजनानां पञ्चत्रिंशतश्चैकषष्टिभागानां परिरयपरिमाणं व्यवहारतोऽष्टादश योजनानि, तस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, 'दिवसराई तहेव' त्ति दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-तया णं अट्टारसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगडि भागमुहुत्तेहि अहिए' इति, एवं खल्वि' त्यादि एतत्सूत्रं प्राग्कुतच्या ख्यानानुसारेण स्वयं परिभावनीयं, नवरं 'निव्वेढेमाणे' इति निर्वेष्टयन् निर्वेष्टयन् हापयन् हापयन्नित्यर्थः । 'ता जया णमित्यादि सुगमं, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह- 'ता सव्वावि न'मित्यादि, ततः सर्वाण्यपि मण्डलपदानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य, उपलक्षणमेतत् अनियतानि चायामविष्कम्भपरिधिभि तथा सर्वाण्यपि च मण्डलान्तरकाणिमण्डलान्त- राणि, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजने 12 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy