SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/४/२५ 'तयाण मित्यादि तदा सर्ववाह्यमण्डलचारचरणकाले उत्तमकाष्ठाप्राप्ता-परमप्रकर्षप्राप्ता उत्कृष्ट अष्टादशमुहूर्त्ता रात्रिभवति, जघन्यश्चद्वादशमुहूर्तोदिवसः, 'एसणं पढमे छम्मासे इत्यादि प्राग्वत, ते पविसमाणा'इत्यादि, तौ ततःसर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सौ द्वितीयं षण्मासमाददानौ द्वितीयस्य षम्मासस्य प्रथमेऽहोरात्रे वाह्यानन्तरं-सर्ववाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यौ द्वितीयंषण्मासमाददानौ द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे वाह्यानन्तरंसर्ववाह्यान्मण्डलादर्वागनन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरतस्तदा एकं योजनशतसहनं षट् शतानि चतुःपञ्चाशदधिकानि षड्विंशतिं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्यातावितिवदेत्, कथमेतावत्तस्मिन् सर्ववाह्यान्मण्डलादाक्तने द्वितीये मण्डले परस्परमन्तरकरणमिति चेत् ?, उच्यते, इहैकोऽपि सूर्य सर्वबाह्यमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान् योजनस्यापरे च द्वे योजने अभ्यन्तरं प्रविशन् सर्वबाह्यान्मण्डलादक्तिने द्वितीये मण्डलेचारंचरति, अपरोऽपि, ततः सर्वबाह्यगतादष्टाचत्वारिंशदतरपरिमाणाद् अत्रान्तरपरिमाणं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्योनं प्राप्यते इति भवति यथोक्तमत्रान्तरपरिमाणं, 'तया न मित्यादि, तदा सर्वबाह्यानन्तराक्तिन द्वितीयमण्डलचारचरणकालेऽष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना, द्वादशमुहूर्तो दिवसो द्वाभ्यां मुहूर्तेकषटिभागाभ्यामधिकः। ते पविसमाणा'इत्यादि, ततस्तस्मादपि सर्ववाह्यमण्डलाक्तिनद्वितीयमण्डलादभ्यन्तरं प्रविशन्तौ तौ द्वौ सूर्गे द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे ‘बाहिरं तचंति सर्वबाह्यन्मण्डलाद- वक्तिनं तृतीयं मण्डलमुपसक म्य चारं चरतः।। ताजयाण मित्यादितत्र यदा एतौद्वौसूर्यौसर्वबाह्यान्मण्डलादक्तिनं तृतीयंमण्डलमुपसंक म्य चारं चरतः तदा एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वाचारंचरतः, प्रागुक्तयुक्त्यापूर्वमण्डलगतादन्तरपरिमाणादत्रान्तरपरिमाणमस्य पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनत्वात्, “तया न'मित्यादि, तदा-सर्वबाह्यान्मण्डलादस्तिनतृतीयमण्डलचारचरणकालेऽष्टादशमुहूर्ता रात्रिर्भवति, चतुर्भिहूर्तेक,प्टिभागैरूना, द्वादशमुहूर्तो दिवसश्चतुर्भिरेकषष्टिभागैमुहूर्तम्याधिकः । एवं खलु'इत्यादि, एवम्-उक्तप्रकारेण खलु-निश्चितमनेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्वमण्डलगतादन्तरपरिमाणादनन्तरे अनन्तरे विवक्षिते मण्डले अन्तरपरिमाणस्याष्टाचत्वारिंशतमेकपष्टिभागान् द्वे च योजने वर्धयति हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौसूर्योतदनन्तरान्मण्डलात्तदनन्तरंमण्डलं संका मन्तौ संका मन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतादन्तरपरिमाणात् अनन्तरेऽनन्तरे विवक्षिते मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्तौ-हापयन्ती हापयन्तावित्यर्थः, द्वितीयस्यषम्मासस्य त्र्यशीत्यधिकशततमेअहोरात्रेसूर्यसंवत्सरपर्यवसानभूते सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरतः । 'ता जया ण मित्यादि, तत्र यद एतौ द्वौ सूर्यौ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट्योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः, अत्र चैवं रूपान्तरपरिमाणे भावना प्रागेव कृता, शेषं सुगमम् ।। प्राभृतं-१, प्राभृतप्रभृत-४ समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy