SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १, प्राभृतप्राभृतं २९ द्वितीयषण्मासमध्ये प्रत्येकंपरिभ्रभ्यन्ते, सर्वेष्वपिच दिग्विभागेषुप्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्यते द्वितीयमपरेण एवं यावत्सर्वान्तिमं मण्डलं, तत्र दक्षिणपूर्वदिग्भागे द्वितीयषण्मासमध्ये भारतःसूर्योद्विनवति-मण्डलानि परिभ्रमति, एकनवतिमण्डलानि ऐरावतः, उत्तरपश्चिमेदिग्विभागे द्विनवतिमण्ड- लान्यैरावतः परिभ्रमति, एकनवतिमण्डलानि भारतः, एतच्च पट्टिकादौ मण्डलस्थापनां कृत्वा परिभावनीयं, तत उक्तम्-दक्षिणपूर्वे द्विनवतिसङ्ख्यानि मण्डलानि उत्तरपश्चिमे त्वेकनवतिसङ्ख्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वीयं चीर्णप्रतिचरणपरिमाणमुक्तमिदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह-'तत्थ य अयं भारहे' इत्यादि, 'तत्र'जम्बूद्वीपे ‘अयं' प्रत्यक्षत उपलभ्यमानोजम्बूद्वीपसम्बन्धी भारतः सूर्योयस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विंशत्यधिकेन भागशतेन छित्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया तत्तन्मण्डलं चतुर्भिविभज्य उत्तरपूर्वे ईशाने कोणे इत्यर्थः 'चतुर्भागमण्डले'तस्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां षण्मासानां मध्ये एरावतस्य सूर्यस्य द्विनवतिसूर्यमतानि-द्विनवतिसवयान्वैरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिचरति। एतदेव व्यक्तीकरोति-‘जाइंसूरिए परस्सचिण्णाई पडिचरई' यानि सूर्यो भारतः परस्स चिनाई' इत्यत्र षष्ठी तृतीयार्थेपरेणएरावतेन सूर्येणनिष्क्रमणकाले चीर्णानिप्रतिचरति, दक्षिणपश्चिमे च मण्डलचतुर्भागे एकनवतिं-एकनवतिसङ्ख्यानिएरावतस्य सूर्यस्येत्यत्रापिसम्बध्यते, ततोऽयमर्थ-ऐरावतस्य सूर्यस्य सम्बन्धीनि सूर्यमतानि, किमुक्तं भवति ? -ऐरावतेन सूर्येण पूर्व निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेवाह-'जाइंसूरिए परस्सचिण्णाइंपडियरइ एतत्पूर्वव व्याख्येयं, अत्राप्येकस्मिन् विभागे द्विनवतिरेकस्मिन् भागे एकनवतिरित्यत्र भावना प्रागिव भावनीया, तदेवं भारतः सूर्यो दक्षिणपूर्वे द्विनवतिसङ्ग्यानि उत्तरपश्चिमे एकनवतिसङ्ख्यानि स्वयं चीर्णानि उत्तरपूर्वे द्विनवतिसङ्घयानि दक्षिणपश्चिमे एकनवतिसङ्ख्यान्वैरावतसूर्यचीर्णानि प्रतिचरतीत्यापपादितं, सम्प्रति ऐरावतः सूर्य उत्तरपश्चिमदिग्भागे द्विनवतिसङ्ख्यानि मण्डलानि दक्षिणपूर्वे एकनवतिसङ्ग्रयानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनवतिसङ्खयान्युत्तरपूर्वे एकनवतिसङ्ख्यानि भारतूर्यचीर्णानि प्रतिचरतीत्येतत्यति- पादयति-'तत्थ अयं एरवए सूरिए' इत्यादि, एतच्च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं व्याख्येवं ।। सम्प्रत्युपसंहारमाह-'ता निखममाणा खलु'इत्यादि, अस्यायं भावार्थ-इह भारतः सूर्योऽभ्यन्तरंप्रविशन्प्रतिमण्डलं द्वौ चतुर्भागौ स्वयंचीो प्रतिचरतिद्वौतुपरची# ऐरावतोऽप्यभ्यन्तरं प्रविशन् प्रतिमण्डं द्वौ चतुर्भागौ स्वचीर्णी प्रतिचरति द्वौतुपरचीर्णाविति सर्वसङ्ख्यया प्रतिमण्डलमेकैकेनाहोरात्रद्वयेन उभयसूर्यचीर्णनतिचरणविवक्षायामष्टौ चतुर्भागाः प्रतिचीर्णा प्राप्यन्ते, ते च चतुर्भागाश्चतर्विंशत्यधिकशतसत्काष्टादशभागप्रमिताः, एतच्च प्रागेव भावितं, ततोऽष्टादशभिर्गुणिताश्चतुश्चत्वारिंशदधिकं शतं भागानां भवति, तत एतदुक्तं भवति 'पविसमाणा खलु एए दुवे सूरिया अन्नमन्नस्स चिन्नं पडियरंति, तंजहा-सयमेगं चोयाल'मिति, ‘गाहाओ'त्ति, अत्राप्येतदर्थप्रतिपादिकाः काश्चनापि सुप्रसिद्धा गाथा वर्तन्ते, ताश्च व्यवच्छिन्ना इति कथयितुं न शक्यन्ते, यो वा यथा सम्प्रयादवगच्छति तेन तथा वक्तव्याः। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy