________________
३१०
सूर्यप्रज्ञप्तिउपासूत्रम् २०/- १९७ ॥१॥ “सूओ १ यणो २ जवण्णं ३ तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८।
भक्खा ९ गुललावणिया १० मूलफला हरियगं १२ डागो १३ ।। ॥२॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगंचेव १७
अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ इदं गाथाद्वयमपि सुगम, नवरं मांसत्रयं जलजादिसत्कं यूषो-मुद्गतण्डुलजीरककडुभाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपर्पटिका गुडधाना वा मूलफलानीत्येकमेव पदं द्वन्द्वसमासरूपं हरितकं-जीरकादि शाको-वस्तुलादिभर्जिका रसालू--मर्जिका तल्लक्षणमिदम्॥१॥ "दो धयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा।
दस खंडगुल पलाइं एस रसालू निवइजोग्गो॥" इति, पान-सुरादि पानीयं-जलं पानकं-द्राक्षापानकादि शाकः-तक्रसिद्धः, एवंभूतं भोजनं भुक्तः सन् तस्मिन् ताशे वासगृहे, किंविशिष्टे इत्याह-अन्तः सचित्रकर्मणि 'बहि। दूभियघट्टम?'त्तिदूमिए-सुधापधवलिते घृष्टेपाषाणादिना उपरिघर्षितेततो मृष्टे-मसृणीकृते, तथा विचित्रेण-विविधचित्रयुक्तेनोल्लोचेन-चन्द्रोदयेन 'चिल्लिय'ति दीप्यमानं गृहमध्यभागे उपरितनंतलंयस्य तत्तथा तस्मिन्, तथा बहुसमः प्रभूतसमः सुविभक्तः-सुविच्छित्तिको भूमिभागो यत्र तस्मिन्, तथा मणिरलप्रणाशितान्धकारेतथा कालागुरुप्रवरकुन्दुरुक्कतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्धृतः-इतस्ततो विप्रसृतस्तेनाभिराम-रमणीयंतस्मिन्, तत्र कुंदुरुक्क-सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा वरगन्धिक-वरो गन्धो वरगन्धः सोऽस्यास्तीति वरगन्धिकं, 'अतोऽनेकस्वरा दितीकप्रत्ययः, तस्मिन्, अतएव गन्धवर्तिभूतेतस्मिन्, ताशेशयनीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च मध्यभागेन गम्भीरे 'सालिंगणवट्टिए'त्ति सहालिङ्गनवा-शरीरप्रमाणेनोपधानेन वर्तते यत्तत्तथा, तथा 'उभयो विब्बोयणे' इति उभयोः प्रदेशयोः-शिरोऽन्तपादान्तलक्षणयोर्विब्बोयणे-उपधानके यत्र तत्तथा।
तत्र क्वचित् पन्नत्तगंडविब्बोयणे'त्तिपाठः तत्रैवं व्युत्पत्ति-प्रज्ञया-विशिष्टकर्मा-विषयबुद्धया आप्ते-प्राप्तेअतीवसुष्टु परिकर्मितेइति भावःगण्डोपधानके यत्र तत्तथातत्र, ओयवियखोमियदुगुल्लपट्टपडिच्छायणे' ओयवियं-सुपरिकर्मितं क्षौमिकंदुकूलं-कार्पासिक-मतसीमयं वावस्त्रतस्य युगलरूपोयः पट्टशाटकःसप्रतिच्छादनं-आच्छादनंयस्यतत्तथा तत्र, रत्तंसुयसंवुडे' रक्तांशुकेन-मशकगृहाभिधानेन वस्त्रविशेषेण संवृते-समन्तत आवृते 'आईणगरूयबूरनवनीयतूलफासे' आजीनक-चर्ममयो वस्त्रविशेषः च स्वभावादतिकोमलो भवति रूतं च-काप्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं च-म्रक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेषामिव स्पर्शो यस्य तत्तथा तस्मिन् ।
'सूगन्धवरकुसुमचुण्णसयणोवयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयश्चूर्णा-पटवासादयो येच एतदव्यतिरिक्तास्तथाविधाः शयनोपचारास्तैः कलिते, तथा ताशया वक्तुमशक्यस्वरूपतया पुण्यवतांयोग्यया "सिंगारागारचारुवेसाए'त्तिशृङ्गारः शृङ्गाररसपोषकः आकारः-सन्निवेशविशेषो यस्य स श्रृङ्गाराकारः इत्थंभूतश्चारु-शोभनो वेषो यस्याः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org