________________
३०८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २० /-/१९६ वृ. 'ता कहं ते इत्यादि, त इति पूर्ववत्, कथं-केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह-'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिपेन्द्रस्यज्योतिषराजस्य मृगाङ्के-मृगचिह्ने विमाने अधिकरणभूते कान्ताः-कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवोज्योतिषेन्द्रोज्योतिषराजः सौम्यः-अरौद्राकारः कान्तः-कान्तिमानसुभगः सौभाग्ययुक्तत्वात वल्लभो जनस्य प्रियं-प्रेमकारिदर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं-अप्रत्यङ्गावयवसन्निवेशविशेषोयस्यस सुरूपः, ता-ततः एवंखलुअनेन कारणेनचन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवति?
सर्वात्मनाकमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कया व्युत्पत्येति, उच्यते, इह 'शश कान्ता'विति धातुरदन्तश्चौरादिकोऽस्ति, धुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसतव्याः, अत एव चन्द्रगोणीचुरादिगणस्यापरिमिततया परमार्थतो यथालक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून पठितवान्नभूयसः, ततोणिगन्तस्य राशनं शशइतिधप्रत्यये राशइति भवति,शशोऽस्यास्तीति राशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते शशीति सह श्रिया वर्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं । ___ “ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह-'ता सूराइया' इत्यादि, सूर आदि-प्रथमो येषां ते सूरादिकाः, के इत्याह-‘समयाइति वा समया-अहोरात्रादिकालस्य निर्विभागाभागाः, ते सूरादिकाः-सूरकारणाः, तथाहि-सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसङ्खयेयसमयसमुदायामिका आवलिकाअसङ्खयेयाआवलिका एकआनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्यावलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम्॥१॥ “एगो आणापाणू तेयालीसं सया उ बावन्ना ।
आवलियपमाणेणं अनंतनाणीहिं निद्दिष्ठो ॥" सप्तानप्राणप्रमाणः स्तोकः, यावच्छब्दान्मुहूदियो द्रष्टव्याः, तेच सुगमत्वात् स्वयं भावनीयाः, “एवं खलु'इत्यादि, एवमनेन कारणेन खलु-निश्चितः सूर आदित्यः २ इत्याख्यात इति वदेत्, आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः।।
मू. (१९७) ता चंदस्स णं जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पन्नत्ताओ ता चंद० चत्तारि अग्गमहिसीओ पन्नताओ,-चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, जहा हेट्ठा तंव जव नो चेवणं मेहुणवत्तियं, एवं सूरस्सवि नेतव्वं, ता चंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणो केरिसगा कामभोगे पच्चणुभवमाणा विहरंति ?
तासे जहानामते केई पुरिसे पढमजोव्यणुट्ठाणबलसमत्थे पढमजोव्वणुट्ठाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अस्थगवेसणताए सोलसवासविप्पवसिते से णं ततो लद्धटे कतकज्जे अणहसमग्गे पुनरवि नियगघरं हब्बमागते हाते कतबलिकम्मे कयकोउय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org