________________
प्रामृतं २०, प्राभृतप्राभृतं
३०५ भवइ, अवसेसे समए चंदे रत्ते विरत्ते य भवति, तत्थणजे ते पव्वराहू से जहन्नेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स।
वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवान् ! त्वया राहुकर्मराहुक्रिया आख्यातमिति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदशयति-'तत्थे'त्यादि, तत्र-राहुकर्मविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, 'तत्थेगे'इत्यादि, तत्र-तेषां द्वयानांपरतीथिकानांमध्ये एकेपरतीर्थिका एवमाहुः ताइतिपूर्ववत् अस्तिणमितिवाक्यालङ्क्तरे स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति, अत्रोपसंहारमाह-एगे एवमाहंसु।
एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता ति पूर्ववत्, नास्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति, तदेवं प्रतिपत्तिद्वयमुपदर्य सम्प्रत्येतद्भावनार्थमाह-'तत्थे'त्यादि, तत्र ये ते वादिनः एवमाहुः अस्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णातीति त एवमाहुः त एवं स्वमतभावनिकां कुर्वन्ति । 'ता राहू ण'मित्यादि, ता इति पूर्ववत् राहुर्देवश्चन्द्रं सूर्यं वा गृह्णन् कदाचित् बुजान्तेनैव गृहीत्वा बुनान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः, कदाचित बुघ्नान्तेन गृहीत्वा मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्वा उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित् मुर्धान्तेन गृहीत्वा बुजान्तेन मुञ्चति, यदिवा मूर्धान्तेन गृहीत्वा मूर्द्धान्तेनैवमुञ्चति भावार्थप्राग्वद्भावनीयः,अथवा कदाचित्वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्जति, किमुक्तं भवति? -वामपाइँन गृहीत्वा वामपार्वेनैव मुञ्चति, यदिवा वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थ सुगमः । _ 'तस्थ जे ते इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये येते एवमाहुः यथा नास्ति स राहुर्देवोयश्चन्द्रं सूर्यंवा गृह्णातीति तेएवमाहुः, 'तत्थणमित्यादि, तत्रजगतिणमिति वाक्यालङ्क्तरे इमेवक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाःप्रज्ञप्ताः, तद्यथे'त्यादिना तानेव दर्शयति-एते यथासम्प्रदायं वैविक्त्येन प्रतिपत्तव्याः ।
'ताजयाण'मित्यादि, ततो यदा णमिति वाक्यालङ्क्तरेएते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्नाः-समस्ता ‘सता' इति सदा सातत्येनेत्यर्थःचन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः-चन्द्रसूर्यबिम्बगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति, यथा एवं खलु राहुश्चन्द्रं सूर्यं वा गृह्णातीति, ‘ता जयाण'मित्यादि, ता इति पूर्ववत्, यदा णमिति पुनरर्थेनिपातस्यानेकार्थत्वात् यदापुनरेते पञ्चदशकृष्णाः पुद्गलाःसमस्ताःनोसदा-नसातत्येन चन्द्रस्य सूर्यस्य का लेश्यानुबन्धचारिणो भवन्ति, नखलु तदामनुष्यलोके मनुष्या एवं वदन्ति-यथा एवं खलु राहुश्चन्द्रं सूर्यं वा गृह्णातीति, तेषामेवोपसंहारवाक्यमाह- .
एवं खलु इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्रं सूर्यं वा गृह्णातीति लौकिकं वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुक्तपरतीर्थिकाभिप्रायेण, भगवानाह-'एते'इत्यादि, एते परतीथिका एवमाहुः, 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलाः केवलविदोपलभ्य एवं वदामो, यथा'राहूण'मित्यादि, ताइति पूर्ववत्, राहुःणमिति वाक्यालङ्क्तरे, नदेवोनपरपरिकल्पितपुद्गलमात्रं [12]20]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org