SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रामृतं १५, प्राभृतप्राभृतं २६९ भगवानाह-'तादोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यांचरति, तथाहि-यदि सूर्यस्य मण्डलानांनवभिः शतैः पञ्चदशोत्तरैरष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धौ द्वावहोरात्राविति। 'ता एगमेग'मित्यादिता इति पूर्ववत् एकैकमात्मीयं मण्डलं नक्षत्रं कतिभिरहोरात्रेश्चरति भगवानाह-द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तषष्टैः- सप्तषष्ट्यधिकैः शतै रात्रिन्दिवं छित्वा, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभः शतैः पञ्चत्रिं-शदधिकैः षट्त्रिंशच्छतानिषष्ट्यधिकानि रात्रिन्दिवानांलभामहे ततएकेन मण्डलेन किंलभामहे अत्रान्त्येन राशिना मध्यराशेस्ताडनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि ततश्छेद्यच्छेदकराश्योकेिनापवर्त्तना जात उपरितनो राशि त्रीणि शतानि पञ्चषट्यधिकानि छेदराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि । तत आगतं द्वाभ्यां सप्तषष्ट-यधिकत्रिशतभागाभ्या हीनं द्वितीयं रात्रिन्दिवमिति । सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतीन्नरूपणार्थमाह-'ता जुगे ण'मित्यादि, ता इति पूर्ववत्, युगेन कति मण्डलानि चरति?, भगवानाह--‘ता अडे'त्यादि, ता इति पूर्ववत, अष्टौ मण्डलशतानिचतुरशीत्यधिकानि चरति, चन्द्रः एकेन शतसहसाणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याटषष्ट्यधिकसप्तदशशतसङ्ख्यान् भागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्त्रणि नव शतानि, ततः सप्तदश शतानि अष्टषष्टयधिकानि चतुःपञ्चाशता सहस्रनवभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिलक्षास्त्रिषष्टिः सहस्राणि द्वे शते ततोऽस्य राशेरेकेन शतसहसाणाष्टानवत्या च शतैः मण्डला- नयनाय भागो ह्रियते, लब्धानि अष्टौ शतानि चतुरशीत्यधिकानि मण्डलानामिति । _ 'ताजुगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह–'ता नवपण्णरसे'त्यदि, ता इति पूर्ववत्, नवमण्डलशतानि पञ्चदशाधिकानिचरति, तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहोरात्रशतैस्त्रशदधिकैः कति मण्डलानि लभ्यन्ते?,अत्रान्वेन राशिना मध्यराशेर्गुणनंजातान्यष्टादशशतानि त्रिंशदधिकानि तेषामायेन राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि। ताजुगेण मित्यादिनक्षत्रविषयंप्रश्नसूत्रसुगम, भगवानाह-'ताअट्ठारसे'त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पञ्चत्रिंशानि-पञ्चत्रिंशदधिकानि चरति, तथाहिनक्षत्रमेकेन शतसहस्राणाष्टानवत्वाचशतैः प्रविभक्तस्य मण्डलस्य सत्कानपञ्चत्रिंशदधिकाष्टादशशतसङ्क्षयान् भागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसवयया चतुःपञ्चाशत्सहस्राणि नव शतानि, ततस्तैश्चतुःपञ्चाशता सहनैनवभि शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जाता दश कोटयः सप्त लक्षा एकचत्वारिंशत्सहस्राणि पञ्चशतानि, अर्द्धमण्डलानिचेह ज्ञातुमिष्टानि तत एकस्य शतसहनस्याष्टानवतेश्च शतानामर्द्ध यानि चतुःपञ्चाशत्सहस्राणि नवशतानि तैर्भागो ह्रियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानामिति । सम्प्रतिसकलप्राभृतगतमुपसंहारमाह-'इच्चेसा मुहुत्तगई इत्यादि,इति-एवमुक्तेन प्रकारेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy