________________
२३६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०४ गुण्यन्ते, जातं नवाशीत्यधिकं शतं, तस्यायेन राशिना दशकलक्षणेनभागे हृते लब्धाः अष्टादश दिवसाः, ते च मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते सप्तत्यधिके , ततो दशभिर्भाग लब्धाः सप्तविंशतिर्मुहूर्ताः,तेपूर्वस्मिन् मुहूर्तराशौनक्षिप्यन्ते,जातानि पञ्चशतानि सप्तषट्यधिकानि, येऽपिच एकविंशति सप्तषष्टिभागादिनस्य तेऽपि मुहूर्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानिषट्शतानि , तानि सप्तभिर्गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि, तेषां दशभिर्भागे हते लब्धानि चत्वारि शतान्येकचत्वारिंशदधिकानि, तेषां सप्तषष्ट्या भागे हृते लब्धाः षट् मुहूत्तस्तेि पूर्वमुहूर्तराशौ प्रक्षिप्यन्ते जातानि सर्वसङ्ख्यया मुहूर्तानां पञ्च शतानि त्रिसप्तत्यधिकानि, शेषा चोद्धरति एकोनचत्वारिंशत् सा द्वाषष्ट्या गुण्यते जातानि चतुर्विंशति शतानि अष्टादशाधिकानि तेषांसप्तषष्ट्या भागो ह्रियतेलब्धाः षट्त्रिंशत्द्वापष्टिभागाःशेषास्तिष्ठन्ति षट्तेच एकस्य च द्वाषष्टिभागस्यसत्काः सप्तषष्टिभागाः एतेचातिश्लक्ष्णरूपा भागाइति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशि।
सम्प्रति करणमाह-आउट्टीहि'इत्यादि, यस्यांयस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तया आवृत्या एकोनिकया-एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत यावान् एतन्मुहूतुणितं-मुहूर्तपरिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं, अत्रप्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह-'अभिइस्से'त्यादि, अभिजितः-अभिजिन्नक्षत्रस्यशोधनकं नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषिष्टिभागः एकस्य च द्विषष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्राः-परिपूर्णा षट्पटिभागाः,कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इहाभिजितोऽहोरात्रसत्का एकविंशति सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्ता इति मुहूर्तभागकरणार्थं सा एक विंशति त्रिंशता गुण्यते, जातानिषट् शतानि त्रिंशदधिकानि, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा नव मुहूर्ताः, शेषास्तिष्ठन्ति सप्तविंशति, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि षोडश शतानि चतुःसप्तत्यधिकानि , तेषां सप्तषष्ट्या भागे हृते लब्धाश्चतुर्विंशतिषिष्टिभागाः, शेषास्तिष्ठन्ति पट्षष्टिः, तेच एकस्य द्वापष्टिभागस्य सत्काः सप्तषष्टिभागाः।।
_ सम्प्रतिशेषनक्षत्राणांशोधनकान्युच्यन्ते-'उगुणटु'मित्यादिगाथात्रयं, एकोनषष्ट्यधिकं शतंप्रोष्टपदा-उत्तरभद्रपदा, किमुक्तं भवइ?-एकोनषट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानिनक्षत्राणिशुद्धयन्ति, तथाहि-नव मुहूर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतिभिषजः त्रिंशत् पूर्वभद्रपदायाः पञ्चचत्वारिंशत् उत्तरभाद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेनशतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिपुनवोत्तरेषुशतेषु रोहिणिकारोहिणिकान्तानि शुद्धयन्ति, तथाहि एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्ते रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषुशतेषु पुनर्वसुः-पुनर्वस्वन्तानि शुद्धयन्ति, तत्रत्रिभिः शतैर्नवोत्तरै रोहिणिका-रोहिणिकांतानि शुद्धयन्ति, ततस्त्रिंशतामुहूतैर्मृगशिरः पञ्चदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्येकोनपञ्चाशानि-एकोनपञ्चाशदधिकानि उत्तरफाल्गुनीपर्यन्तानि, किमुक्तं भवति? --
पञ्चभिः शतैरेकोनपञ्चाशदधिकैरुत्तरफाल्गुन्यन्तानिनक्षत्राणि शुद्धयन्ति, तथाहि-त्रिभि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org