SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ २३० जय वड्डड्डी मासा एक मेक्काओ !" -तत्रादमरात्रभावनाकरणार्थमिदं पूर्वाचार्योपदर्शितं गाथाद्वयं"चंदऊऊमासाणं अंसा जे दिस्सए विसेसंमि । ते ओमरत्तभागा भवंति मासस्स नायव्वा ॥ वावठ्ठिभागमेगं दिवसे संजाइ ओमरत्तस्स । बावट्ठी दिवसेहिं ओमरत्तं तओ हवइ ॥ " अनयोर्व्याख्या कर्म्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनित्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य ततश्चन्द्रमासस्य - चन्द्रमासपरिमाणस्य ऋतुमासस्य च कर्म्ममासपरिमाणस्य च इत्यर्थः, परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तद्धयमरात्रस्य परिपूर्णं मासद्वयपर्यन्ते भवति, ततस्तस्य सत्कास्ते भागा मासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागा अव मरात्रस्य प्राप्यन्ते तत एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रशदेव, तस्या आदिराशिना त्रिंशता भागे हते लब्ध एकः आगतं प्रतिदिवसमेकैको द्वाषष्टिभागो लभ्यते, तथा चाह'बावट्ठ' त्यादि, द्वाषष्टिभाग एकैको दिवसे दिवसे संजायते अवमरात्रस्य, गाथायामेकशब्दो दिवस शब्दश्चागृहीतवीप्सोऽपि सामर्थाद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृतलक्षणवशात्, तदेवं यत् एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्वन्धी प्राप्यते ततो द्वाषष्ट्या दिवसैरेकोऽवमरात्रो भवति, किमुक्तं भवति ? - दिवसे दिवसे अवमरात्रसत्कैकैकद्वाषष्टिभागवृद्धया द्वाषष्टितभो भागः सञ्जायमानो द्वाषष्टितमाच तिथिर्निधनमुपगतेति द्वाषष्टितमा तिथिर्लोके पतितेति व्यवह्रियते, उक्तं च-"एक्कंसि अहोरत्ते दोवि तिही जत्त निहणमेज्जासु । सोत्थ तिही परिहायइ" इति वर्षाकालस्य - चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सतिप्रथमोऽवमरात्रः, तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रस्तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे तृतीयोऽवमरात्रः तस्यैव शीतकालस्य सप्तमे पर्वणि मूलापेक्षया पञ्चदशे चतुर्थ तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि मूलापेक्षया एकोनविंशतितमे पञ्चमस्तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे षष्ठः, तथा चोक्तम्“तइयम्मिओमरत्तं कायव्वं सत्तमंमि पव्वंमि । #19 11 वासहिमगिम्हकाले चाउभ्मासे विधीयते । 119 11 ॥२॥ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२ /-/ १०२ इह आषाढाद्या ऋतवो लोके प्रसिद्धिमैयरुः, ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्रा प्रतिपाद्यन्ते, परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतुश्चतुः पर्वातिक्रमे वेदितव्याः, अथ युगादितः कतिपर्वातिक्रमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथि परिसमाप्तिं यास्यतीति चिन्तायामिमाः पूर्वाचार्योपदर्शिताः प्रश्ननिर्वचनरूपा गाथाः"पाडियय ओमरत्ते कइया विइया समप्पिहीइ तिही । 11918 Jain Education International बिइयाए वा तइया तइयाए वा चउत्थी उ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy