________________
२२४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ नामृतूनां परिसमाप्तत्वात्, तत्र तेषु मासेषु यासु च तिथिषु ऋतवः प्रावृडादय सूर्यसत्काः परिसमाप्नुवन्ति तेआषाढादयोमासास्ताश्च तिथयो भाद्रपदाद्या-भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः,तथाहि-प्रथम ऋतुर्भाद्रपदमासेसमाप्तिमुपयाति, ततएकंमासमश्वयुग्लक्षणमपान्तराले मुक्त्वा कार्तिके मासे द्वितीय ऋतुः परिसमाप्तिमियर्ति, एवं तृतीयः पौषमासे चतुर्थ फाल्गुने मासे पञ्चमो वैशाखे मासे षष्ठ आषाढे, एवं शेषा अपि ऋतवएष्वेवषट्सु मासेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषुमासेषु, तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति द्वितीयस्तृतीयायां तृतीयः पञ्चम्यां चतुर्थसप्तम्यांपञ्चमो नवम्यां षष्ठ एकादश्यां सप्तमस्त्रयोदश्यां अष्टमः पञ्चदश्यां, एते सर्वेऽपिऋतोबहुलपक्षे, ततोनवमऋतुःशुक्लपक्षे द्वितीयायांदशमश्चतुर्थ्यामेकादशः षष्ठयांद्वादशोऽष्टम्यां त्रयोदशो दशभ्यां चतुर्दशोद्वादश्यां पञ्चदशश्चतुर्दश्यां, एते सप्त ऋतवः शुक्लपक्षे, एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्याट्टै भवन्ति, तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतवो युगस्याः , भवन्ति, तद्यथा
__ - षोडश ऋतुर्बहुलपक्षे प्रतिपदि सप्तदशः तृतीयायामप्टादशः पञ्चम्यामेकोनविंशतितमः सप्तम्यां विंशतितमो नवम्यामेकविंशतितमः एकादश्यांद्वाविंशतितमः त्रयोदश्यांत्रयोविंशतितमः पञ्चदश्यां एते षोडशादयस्त्रयोविंशतिपर्यन्ता अष्टौ बहुलपक्षे, ततः शुक्लपक्षे द्वितीयायां चतुर्विंशतितमः पञ्चविंशतितमश्चतुर्थ्या षट्विंशतितमः षष्ठयां सप्तविंशतितमोऽभ्यां अष्टाविंशतितमो दशम्यां एकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्यां, तदेवमेते सर्वेऽपि ऋतवो युगेमासेष्वेकान्तरितेषुतिथिष्वपि चैकान्तरितासुभवन्ति, एतेषां च ऋतूनां चन्द्रनक्षत्रयोपरिज्ञानार्थं सूर्यनक्षत्रयोगपरिज्ञानार्थं च पूर्वाचार्ये करणमुक्तं, ततस्तदपि विनेयजनानुग्रहाय दाते॥१॥ "तिन्नि सया पंचहिगा अंसा छेओ सयं च चोत्तीसं ।
एगाइबिउत्तरगुणो धुवरासी होइ नायव्यो॥" ॥२॥ सत्तहि अद्धखित्ते दुगतिगगुणिया समे विदढखेत्ते ।
अट्ठासीई पुस्सो सोज्झा अभिइम्मि वायाला ।। एयाणि सोहइत्ता जं सेसं तंतुहे.. मत्तं ।
रविसोमाणं नियमा तीसाइ उउ. सम नीरु ।। आसां व्याख्या-त्रीणि शतानि पञ्चोत्तराणि अंशा से गाः, किंरूपच्छेदकृता इति चेत्, अत आह-छेदश्चतुस्त्रिशं शतं, किमुक्तं भवति?-चतुरि यधिकशतच्छेदेन छिन्नं यदहोरात्रं तस्य सत्कानि त्रीणि शतानि पञ्चोत्तराणि अंशानामिति, अवंध्रुवराशिर्वोद्धव्यः, एष च ध्रुवराशि 'एकादिव्युत्तरगुण' इति ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन द्वयुत्तरेण एकस्मादारभ्य ततऊर्ध्व द्वयुत्तरवृद्धेन गुण्यते स्मेति गुणो-गुणितः क्रयते, ततएतस्माच्छोधनकानिशोधयितव्यानि, तत्र शोधनकप्रतिपादनार्थं द्वितीया गाथा--
‘सत्तट्ठी'त्यादि, इह यन्नक्षत्रमर्द्धक्षेत्रं तत् सप्तपट्या शोध्यते, यच्च नक्षत्रं समक्षेत्रं तत् द्विगुणया सप्तषष्ट्या चतुस्त्रिंशेन शतेनेत्यर्थः शोध्यते, यत्पुनर्नक्षत्रं द्वयर्द्ध क्षेत्रं तत् त्रिगुणया सप्तषष्ट्या एकोत्तराभ्यां द्वाभ्यां शताभ्यां शोध्यत इत्यर्थः, इहसूर्यस्य पुष्यादीनि नक्षत्राणिशोध्यानि चन्द्रस्याभिजिदादीनि, तत्र सूर्यनक्षत्रयोगचिन्तायां पुष्ये-पुष्यविषयाऽष्टाशीति शोध्या,
॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org