________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ११/-/ ९८ द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैः एकः परिपूर्णो नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चात् सप्त मुहूर्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तानामेकमुहूर्त्तगताश्च द्वाषष्टिभागाः पञ्चनवति एकस्य च द्वाषष्टिभागस्य पञ्चविंसति सप्तषष्टिभागाः तत एतेभ्य एकोनविंशत्या मुहूर्तेरेकस्य च मुहूर्त्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यः शुद्धः स्थितानि पश्चान्मुहूर्तानां सप्त शतानि षट्चत्वारिंशदधिकानि एकस्य च मुहूर्तस्य एकपञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकोनषष्टि सप्तषष्टिभागाः ततो भूयोऽप्येतस्मात् सप्तभिर्मुहूर्त्त शतैश्चतुश्चत्वारिंशदधिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि शुद्धानि ।
२१२
-स्थितौ पश्चाद् द्वौ मुहूर्तावेकस्य च मुहूर्त्तस्य षड्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षष्टि सप्तषष्टिभागाः आगतं द्वितीयचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य द्वाचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथा तृतीयाभिवर्द्धितसंज्ञसंवत्सरपरिसमाप्ति सप्तत्रिंशता पौर्णमासीभिस्ततो ध्रुवराशि सप्तत्रिंशता गुण्यते, जातानि मुहूर्त्तानां चतुर्विंशति शतानि द्वाचत्वारिंश- दधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिकं शतं सप्तषष्टिभागाः सप्तत्रिंशत् तत एतेभ्योऽष्टौ मुहूर्तशतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशति- द्वाषष्टिभागा एकस्य च द्वाषष्टिभगस्य षट्षष्टि सप्तषष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा शोध्यते, ततः स्थितानि पश्चादष्टौ मुहूर्त्तशतानि चतुरुत्तरामि मुहूर्त्तसत्कानां च द्वाषष्टिभागा- नां पञ्चत्रिंशदधिकं शतं एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः तत एतेभ्यः सप्तभिर्मुहूर्तशतैश्चतुःसप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादेकत्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्याष्टचत्वारिंशद द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारिंशत्सप्तषष्टिभागाः
तत आगतं तृतीयाभिवर्द्धित-संज्ञसंवत्सरपर्यवसानसमये उत्तराषाढा नक्षत्रस्य त्रयोदश मुहूर्ता एकस्य च मुहूर्तस्य त्रयोदश द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण सम्प्र - युक्तस्य पुनर्वसुनक्षत्रस्य द्वौ मुहूर्त्ती एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वाषष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षष्टिश्चूर्णिका भागाः शेषाः, तथाहि स एव ध्रुवराशि सप्तत्रिंशता गुण्यते, जातानि मुहूर्त्तानां चतुर्विंशति शतानि द्वाचत्वारिंशदधिकानि मुहूर्त्तसत्कानां च द्वाषष्टिभागानां पञ्चाशीत्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः तत एतेभ्यः पूर्ववत् सकलनक्षत्रपर्यायपरिमाणं द्विगुणं कृत्वा शोध्यते, स्थितानि पश्चादष्टौ मुहूर्त्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां द्वाषष्टिभागानां पञ्चत्रिंशदधिकं शतं एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः ततो भूय एतेभ्य एकोनविंशत्या मुहूर्तेरेकस्य च मुहूर्त्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यः शुद्धः स्थितानि पश्चान्मुहूर्तानां सप्त शतानि पञ्चाशीत्यधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागानां द्विनवतिरेकस्य च द्वापष्टिभागस्य षट् सप्तषष्टिभागाः ततो भूयोऽप्येतेभ्यः सप्तभिर्मुहूर्त्तशतैश्चतुश्चत्वारिंशदधिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org