SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९६ चाहोरा-त्राणामष्टादश शतानि त्रिंशदधिकानि एकैकस्मिंश्चाहोरात्रे मुहूर्तास्त्रशत्ततोऽष्टादशानां शतानां त्रिंशदधिकानां त्रिंशता गुणने भवति यथोक्ता मुहूर्तसङ्ख्या, यथोक्तमुहूर्तसङ्ख्यातिक्रमे च ताशेनैव नक्षत्रेण सह योगः चन्द्रमसस्तस्मिन्नेव देशे न तु तेन नक्षत्रेणान्यस्मिन् वा देशे इति। 'ताजेण'मित्यादि, इदं सूत्रमक्षरार्थमधिकृत्य सुगम, भावना तुप्रागेव कृता, नवरंयुगद्वयकालः षट्त्रिंशच्छतानि षष्ट्यधिकानि अहोरात्राणाममेकैकस्मिंश्चाहोरात्रे त्रिंशन्मुहूर्ता इति षट्त्रिंशच्छतानां षष्ट्यधिकानां त्रिंशता गुणने यथोक्ता मुहूर्तसङ्ख्या भवति। तदेवंताशेनतेन वा नक्षत्रेण सहान्यस्मिन् तस्मिन् अन्यस्मिन वा देशे चन्द्रमसो योगकालप्रमाणमुक्तम्। सम्प्रति सूर्यविषये तदाह-'ता जेण'मित्यादि, ता इति पूर्ववत् अध-विवक्षिते दिने येन नक्षत्रेण सह सर्यो यस्मिन् देशे योगयुनक्ति स इमानि त्रीणि षट्षष्ट्यधिकानि रात्रिन्दिवशतानि उपादाय-अतिक्रम्य पुनरपि स सूर्यस्तस्मिन्नेव देशे ताशेनैवान्येन नक्षत्रेण योगं युनक्ति न तु तेनैव, कुत इति चेत्, उच्यते, इह चन्द्रो नक्षत्रमासेनैकेनाष्टाविंशतिं नक्षत्राणि भुङक्ते, सूर्यस्तु त्रिभिरहोरात्रशतैः षट्षष्ट्यधिकैः, त्रीणि चाहोरात्रशतानिषट्पट्यधिकानिएकःसूर्यसंवत्सरः, ततोऽन्यैस्त्रभिरहोरात्रशतैः षट्षष्ट्यधिकैरन्यानि द्वितीयान्यष्टाविंशतिं नक्षत्राणि परिभुङ्क्ते, तदनन्तरं भूयस्तान्येव प्रथमान्यष्टाविंशतिनक्षत्राणि तावत्याहोरात्रसङ्घयया क्रमेणयुनक्ति, ततः षट्षष्ट-यधिकरात्रिन्दिवशतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे ताशेनैवापरेण नक्षत्रेण सह योगो न तु तेनैव, ‘ता जेणमित्यादि, इदं सूत्रमक्षरार्थं प्रतीत्य सुगमं, भावना तु प्रागेव कृता। 'ताजेण'मित्यादि, ता इति पूर्ववत्, अद्य-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि अष्टादश रात्रिन्दिवशतानि त्रिंशतानि-त्रिंशदधिकानि उपादाय-- अतिक्रम्य पुनरपि तस्मिन्नेव देशेऽन्येनैव तादृशेन सह योगं युनक्ति, न तु तेनैव, कस्मादिति चेत्, उच्यते, इह रात्रिन्दिवानामष्टादशशतानि त्रिंशदधिकानि युगे भवन्ति, तत्र सूर्यो विवक्षिताद्दिनादारभ्य तस्मिन्नेव देशे तदैव दिने तेनैव नक्षत्रेण सहयोगमागच्छतितृतीयसंवत्सरे, युगेच सूर्यवर्षाणि पञ्च, ततस्तृतीये पञ्चमेवा सूर्यसंवत्सरे सूर्यस्य तेनैव नक्षत्रेणतस्मिन्नेव काले योगमादत्ते न तु युगातिक्रमे षष्ठे वर्षे इति । “ता जेण'मित्यादि, सुगम, नवरं षट्त्रिंशद्रात्रिन्दिवशतानि षष्ट्यधिकानि युगद्वये भवन्ति, युगद्वये च दश सूर्यनक्षत्राणि, ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य भिन्नो ग्रहादिकः परिवार इतिश्रुत्वा कश्चिदेवमपि मन्येत यथा भिन्नकालमण्डलेषु चन्द्रादीनां गतिर्भिन्नकालं च तेषां नक्षत्रादिभि सहयोग इति, ततस्तदाशङ्कापनोदार्थमाह मू. (९७) ताजयाणं इमे चंदे गतिसमावन्नए भवति तताणं इतरेविचंदे गतिसमावन्नए भवति, जताणं इतरेविचंदे गतिसमावण्णे भवति तताणं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावण्णे भवति तया णं तरे सूरिए गइसमावन्ने भवति जता णं इतरे सूरिए गतिसमावन्ने भवति तयाणं इमेवि सूरिए गइसमावन्ने भवति, एवं गहेवि नक्खत्तेवि। ___ ता जया णं इमे चंदे जुत्ते जोगेणं भवति तताणं इतरेवि चंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुत्ते जोगेणं भवइ तताणं इमेवि चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि नक्खत्तेवि, सताविणं चंदा जुत्ता जोएहिं सताविणं सूरा जुत्ता जोगेहि सयाविणं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुत्ता जोगेहिं दुहतोविणं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोवि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy