________________
२००
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्याष्टाविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तषष्टिभागाः ततः पञ्चदशभिर्मुहूर्तेरश्लेषात्रिंशतामघा त्रिंशतापूर्वफाल्गुनी शुद्धा,स्थिताःपश्चान्मुहूर्ताः सप्तत्रिंशच्छेषं तथैव, तत आगतं सूर्येण युक्तमुत्तरफाल्गुनीनक्षत्रं सप्तसुमुहूर्तेषु एकस्य चमुहूर्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु द्वितीयां पौर्णमासी परिसमापयति, अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोगं पृच्छति
'ता एएसिणं०, सुगम, भगवानाह-'अस्सिणीहिं'इत्यादि,अश्विनीनक्षत्रं त्रितार-मिति पदपेक्षया बहुवचनं, तदानीं च-तृतीयपौर्णमासीपरिसमाप्तिवेलायां अश्विनीनक्षत्रस्य एकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य नव द्वाषष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कस्त्रिषष्टिश्चूर्णिकाभागाः शेषाः, तथाहि-स एव ध्रुवराशि तृतीयपौर्णमासी चिन्त्यमाना वर्तत इति त्रिभिर्गुण्यते, जातमष्टानत्यधिकंशतं मुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्यचद्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाःतत उगुणटुंपोट्टवया' इतिवचनात् एकोनषष्ट्यधिकेन मुहूर्तशतेनचतुर्विंशत्या द्वाषष्टिभागैरेकस्यचद्वाषष्टिभाग-स्यषट्पट्या सप्तषष्टिभागैरभिजिदादीन्यत्तरभद्रपदापर्यन्तानिषट्नक्षत्राणिशुद्धानि, पश्चादव-तिष्ठन्ते अष्टात्रिंशन्मुहूर्ताएकस्यच मुहूर्तस्य द्विपञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारः सप्तषष्टिभागाः, ततस्त्रिंशता मुहूर्त रेवतीनक्षत्रंशुद्धं तिष्ठत्यष्टौ मुहूर्तास्तत आगतं चन्द्रयुक्तमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य चमुहूत्तस्य नवसुद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति । सम्प्रत्यस्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छत
'तंसमयं चण० सुगम, भगवानाह-'ता चित्ताहिं०,चित्रया युक्तः सूर्य परिसमापयति, तदानीं च-तृतीय पौर्णमासीपरिसमाप्तिवेलायां चित्रायामेको मुहूर्तस्य अष्टाविंश-
तिषष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का त्रिंशत् चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशि सम्प्रति तृतीयपौर्णमासी चिन्तितेति त्रिभिर्गुण्यते,जातमष्टानक्त्यधिकंशतंमुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत एतस्मापुष्यशोधनकं पूर्वोक्तप्रकारेण शोध्यते स्थितं पश्चादष्टसप्तत्यधकंमुहूर्तानां शतमेकस्य च मुहूर्तस्य त्रयस्त्रशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत्सप्तषष्टिभागाः ततः पञ्चाशदधिकेन मुहूर्तशतेनाश्लेषादीनि हस्तपर्यन्तानिपञ्च नक्षत्राणि शुद्धयन्ति, शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहूर्ताः शेषं तथैव तत आगतं सूर्येण सह सम्प्रयुक्तंचित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य चमुहूर्तस्याटाविंशती द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिंशतिसप्तषष्टिभागेषुशेषेषुतृतीयांपौर्णमासींपरिसमापयति।
सम्प्रति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति 'ता एएसि ण'मित्यादि सुगम, भगवानाह- 'ता उत्तराहिं'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परिसमापयति, तदानीं च तयोरुत्तरयोराषाढयोः षडविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य षडविंश-तिषिष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःपञ्चाशचूर्णिका भागाः सेषाः, तथाहि-स एव ध्रुवराशि द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि तत एतस्मात् 'मूले सत्तेव वायाला' इत्यादिवचनात्, सप्तभिश्च द्विचत्वारिंशदधिकैर्मुहूर्तानांशतैरेकस्य चमुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org