________________
१९८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२ / ९४
मध्ये प्रथमां पौर्णमासी चन्द्र उपलक्षणमेतत् सूर्यो वा केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति - परिसमापयति ?, भगवानाह - ता इति तत्र तेषां पञ्चानां संवत्सराणां मध्ये प्रथम पौर्णमासी चन्द्रः परिसमापयति धनिष्ठाभि, धनिष्ठानक्षत्रस्य पञ्चतारत्वात्तदपेक्षया बहुवचनं अन्यथा त्वेकवचनं द्रष्टव्यं, तासां च धनिष्ठानां त्रयो मुहूर्त्ताः एकस्य च मुहूर्त्तस्य एकोनविंशतिर्द्वाषष्टिभागा एक द्वाषष्टिभागं सप्तषष्टिधा छित्वा पञ्चषष्टिश्चूर्णिका भागाः शेषाः, तथाहि
पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकः सप्तषष्टिभागः । इत्येवंरूपो ध्रुवराशिर्धयते, धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुमिष्ट इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोध्यते, तत्र षट्षष्ट्रेर्नव मुहूर्त्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तेभ्य एको मुहूर्ती गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिर्द्वाषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, एकं रूपमादाय सप्तषष्टिभागीक्रयते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिर्भागमध्ये प्रक्षिप्यन्ते, जाताः अष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाः स्थितौ द्वौ पश्चात्सप्तपष्टिभागौ, ततस्त्रशता मुहूतैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूर्त्ताः षड्विंशति, तत इदमागतं - धनिष्ठा नक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसङ्घयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्घयेषु सप्तषष्टिभागेषु शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमुपयाति, सम्प्रति सूर्यनक्षत्रयोगं पृच्छन्नाह - 'तं समयं च ण' मित्यादि तं समयमित्यत्र 'कालाध्वनोर्व्याप्ता'वित्यधिकरणत्वेऽपि द्वितीया, ततोऽयमर्थः तस्मिन् समये यस्मिन् समये धनिष्ठानक्षत्रं चन्द्रेण युक्तं यथोक्तशेषं परिसमापयति तस्मिन् क्षणे इत्यर्थः, सूर्य केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासीं परिसमापयति, भगवानाह - 'ता पुव्वाहिं' इत्यादि, ता इति तदा पूर्वाभ्यां फाल्गुनीभ्यां पूर्वफाल्गुनीनक्षत्रस्य द्वितारत्वात्तदपेक्षया द्विवचनं, द्विवचने च प्राप्ते प्राकृते बहुवचनं, तयोश्च पूर्वफाल्गुन्योस्तदानीमष्टाविंशतिर्मुहूर्त्ता अष्टात्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वात्रिंशचूर्णिका भागाः शेषाः, तथाहि
स एव षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंप्रमाणो ध्रुवराशिर्धयते । धृत्वा च एकेन गुण्यते, एकेन च गुणितं तदेव भक्तति तावानेव जातः, ततस्तस्मात् पुष्यसोधनकं एकोनविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य व्यस्त्रिशत्सप्तषष्टिभागाः इत्येवंप्रमाणं शोध्यते, अथैतावयमाणस्य पुष्यशोधनकस्य कथमुत्पत्तिरिति, उच्यते, इह पूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशति सप्तषष्टिभागाः परिसमाप्ताश्चत्वारिंशदवतिष्ठन्ति, ततस्ते चतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि तेषां सप्तषट्या भागो हियते, लब्धा एकोनविंशतिर्मुहूर्त्ताः शेषास्तिष्ठन्ति सप्तचत्वारिंशत्, ते (च) द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्द्दशोत्तराणि तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य
}
}
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org