SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १८० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७८ धिकृत्यान्यत्रोक्तम्॥१॥ “कम्मो निरंसयाए मासो ववहारकारगो लोए। सेसाओ संसयाए ववहारे दुक्करो धित्तुं ।।" तथा सवनं-कर्मसु प्रेरणं 'धू प्रेरणे' इति वचनात् तप्रधानः संवत्सरः सवनसंवत्सर इत्यप्यस्य नाम, तथा चोक्तं॥१॥ "वे नालिय मुहुत्तो सही उण नालिया अहोरत्तो । __ पन्नरस अहोरत्ता पक्खो तीसं दिणा मासो।। ॥२॥ संवच्छरो उ वारस मासा पक्खा यतेचउव्वीसं । तिन्नेव सया सठ्ठा हवंति राइंदियाणंतु॥ ॥३॥ एसो उ कमो भणिओ निअमा संवच्छरस्स कम्मरस । कम्मोत्ति सावणोतित य उउइत्तिय तस्स नामाणि। तथा यावता कालेनषडपिप्रावृडादयःऋतवः परिपूर्णाप्रावृत्ता भवन्तितावान्कालविशेष आदित्यसंवत्सरः, उक्तंच- "छप्पि उऊपरियट्टा एसो संवच्छरो उ आइचो" तत्र यद्यपि लोके षष्ट्यहोरात्रप्रमाणः प्रावृडादिक ऋतुःप्रसिद्धः तथापिपरमार्थतःसएकषष्ट्यहोरात्रप्रमाणो वेदितव्यः, तथैवोत्तरकालमव्यभिचारदर्शनात्, अत एव चास्मिन् संवत्सरे त्रीणि शतानि षट्पट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरं भवति, तथा चान्यत्रापि पञ्चस्वपि संवत्सरेषु यथोक्तमेव रात्रिन्दिवानां परिमाणमुक्तं । ॥१॥ “तिन्नि अहोरत्तसया छावट्ठा भक्खरो हवइ वासो। ___ तिन्नि सया पुण सट्ठा कम्मो संवच्छरो होइ॥ ॥२॥ तिन्नि अहोरत्तसया चउपन्ना नियमसो हवइ चंदो। भागो य बारसेव य बावडिकएण छेएण॥ ॥३॥ तिन्नि अहोरत्तसया सत्तावीसा य होंति नक्खत्ता। एक्कावन्नं भागा सत्तहिकएणछेएण॥ ॥४॥ तिन्नि अहोरत्तसया तेसीईचेव होइ अभिवड्ड़ी। चोयालीसं भागा बावठिकएण छेएण ।। एताश्चतम्रोऽपि गाथाः सुगमाः, इदं च प्रतिसंवत्सरं रात्रिन्दिवपरिमाणमग्रेऽपि वक्ष्यति परमिह प्रस्तावादुक्तं । सम्प्रति विनेयजनानुग्रहाय संवत्सरसङ्ख्यातो माससङ्ख्या प्रदर्श्यते तत्र सूर्यसंवत्सरस्य परिमाणं त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरस्तत्र त्रयाणां शतानां षट्षष्ट्यधिकानां द्वादशभिर्भागो ह्रियते, लब्धाः त्रिंशत् , शेषाणि तिष्ठन्तिषट्, ते अर्द्ध क्रियते, जाता द्वादश, ततो लब्धमेकंदिवसस्यार्द्धमतोवत्परिमाणः सूर्यमासः, तथा कर्मसंवत्सरस्य परिमाणंत्रीणिशतानि षष्ट्यधिकानि रात्रिन्दिवानां तेषां द्वादशभिर्भागे हृते लब्धास्त्रिंशदहोरात्रा एतावत्कर्ममासपरिमाणं, तथा चन्द्रसंवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानिचतुष्पञ्चाशदधिकानि द्वादशचद्वाषष्टिभागा अहोरात्रस्य, तत्रत्रयाणां शतानां चतुष्पञ्चाशदधिकानां द्वादशभिर्भागहृतेलब्धा एकोनत्रिंशदहोरात्राः, शेषाः तिष्ठन्ति षट् अहोरात्राः, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy