________________
प्राभृतं १०, प्राभृतप्राभृतं -२०
१६९
सप्तपष्टिभागरूपैर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि, छेदराशिौषष्टि, तत्र सप्तषष्टिर्नवशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्येकषष्टि सहस्राणि त्रीणि शतानि पञ्चोत्तराणि, एतस्मादभिजितस्त्रयोदश शतानि द्वयुत्तराणि शुद्धानि, स्थितानि शेषाणि षष्टिसहसणि त्र्यत्तराणि, तत्र छेदराशिषिष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानिचतुष्पञ्चाशदधिकानि,तै गोहियते, लब्धाश्चतुर्दश, तेन श्रवणादीनि पुष्यपर्यन्तानिचतुर्दशनक्षत्राणिशुद्धानि, शेषाणितिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि। एतानि मुहूर्तानयनार्थंत्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहनाणि चत्वारि शतानि दशोत्तराणि, तेषां भागे हृते लब्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि , एतानि द्वाषष्टिभागानयनार्थं द्वाषट्य गुणचितव्यानीतिगुणकारच्छेदराश्यो-षष्ट्याऽपवर्तना क्रियते, तत्रगुणकारराशिर्जात एककश्छेदराशि सप्तषष्टि, एकेनच गुणित उपरितनो राशितिस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशति, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषाषायास्त्रयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तषष्टिभागं मुक्त्वा समाप्तमिति ।
तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टि पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातं चतुस्त्रिंशदधिकं शतं, तस्यायेन राशिना चतुर्विंशत्यधिकशतरूपेण भागो ह्रियते, लब्ध एको नक्षत्रपर्यायः, स्थिताः शेषा दश, तत एतान् नक्षत्रानयनायाष्टादशभिशतैः त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्यामइति गुणकारच्छेदराश्योरट्टेनापवर्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि, छेदराशिर्वाषष्टः, तत्र दश नवभि शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्येक-नवति शतानि पञ्चाशदधिकानि, तेभ्यस्त्रयोदशशतानि द्वयुत्तराण्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्तति शतानि अष्टाचत्वारिंशदधिकानि, तत्र द्वापष्टिरूपश्छेदराशि सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियते, लब्धमेकं श्रवणरूपं नक्षत्रं, शेषाणि तिष्ठन्ति षट्त्रिंशच्छतानिचतुर्नवत्यधिकानि ___एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं दश सहसाणि अष्टौ शतानि विंशत्युत्तराणि, तेषां छेदराशिना भागे हृते लब्धाः षड्विंशतिर्मुहूर्ताः, शेषाणि तिष्ठन्ति षोडशोत्तराणि अष्टाविंशति शतानि, एतानि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानि, तत्र गणकारच्छेद्यराश्योषिष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपोजातश्छे-दराशि सप्तषष्टि, तत्रैकेन उपरितनो राशिगुणितो जातस्तावानेव तस्य सप्तषष्ट्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ, आगतं द्वितीयं पर्व धनिष्ठानक्षत्रस्य षड्विंशति मुहूर्तान् एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ मुक्त्वा समाप्तिमुपगच्छति । एवं शेषेष्वपि पर्वसु सर्वाणि नक्षत्राणि भावनीयानि, तत्सङ्ग्रहिकाश्चेमाः पूर्वाचार्यप्रदर्शिताः पञ्च गाथाः॥१॥ “सप्प धाणट्ठा अज्जम अभिवुड्डी चित्त आसइंदग्गि।
रोहिणी जिट्ठा मिगसिर विस्साऽदिति सवण पिउदेवा ।। ॥२॥ अज अज्जम अभिवुड्डी चित्ता आसो तहा विसाहाओ।
रोहिणि मूलो अद्दा वीसं पुस्सो धणिट्ठा य ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org