SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - २० मण्डलादारभ्य तृतीये मण्डले सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोर्गतयोः परिसमाप्नोतीति । तथा द्वाषष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिद्वषिष्ट्या गुण्यते, जातानि द्वाषष्टिरयनानि द्वाषष्टिर्मण्डलानि द्वेशते अष्टाचत्वारिंशदधिके सप्तषष्टिभागानां पञ्चशतानि अष्टापञ्चाशदधिकानि एकत्रिंशद्भागानां तेषामेकत्रिंशता भागे लब्धाः परिपूर्णा अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशी प्रक्षिप्यन्ते, जाते द्वे शते षट्षष्ट्यधिके, उपरि च द्वाषष्टिमण्डलानि, तेभ्यो द्विपञ्चाशता मण्डलैर्द्विपञ्चाशता च एकस्य मण्डलस्य सप्तपष्टिभागैश्चत्वारि अयनानि लव्धानि, तान्ययनराशौ प्रक्षिप्यन्ते, जातानि षट्पटिरयनानि पश्चादवतिष्ठन्ते नवमण्डलानि पञ्चदश च सप्तषष्टिभागा मण्डलस्य, तत्र पञ्चदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वेशते एकाशीत्यधिके, तयोः सप्तषष्ट्या भागे हृते लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागा मण्डलस्य, ते च मण्डलाराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशभिर्मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लव्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टिरयनानि, 'नत्थि निरंसंमि रूवजुय' मिति वचनादयनराशौ रूपं न प्रक्षिप्यते । " १६७ ? केवलं 'कसिणमि होइ रूवं पक्खेवो' इति वचनान्मण्डलस्थाने एकं रूपं न्यस्यते, द्वाषष्ट्या चात्र गुणकारः कृतो द्वाषष्टिरूपश्च राशिर्युग्मो यान्यपि च चत्वार्ययनानि प्रविष्टानि तान्यपि युग्मरूपाणि रूपं चात्राधिकमेकं न प्रक्षिप्तमिति पञ्चममयनं तत्स्थाने द्रष्टव्यमिति वाह्यमण्डलमादिर्द्रष्टव्यं तत आगतं द्वाषष्टितमं पर्व सप्तषष्ट्रय्वयनेषु परिपूर्णेषु जातेषु वाह्यमण्डले प्रथमरूपे परिसमाप्ते परिसमाप्तिं गतमिति, एवं सर्वाण्यपि पर्वाणि भावनीयानि, केवलं विनेयजनानुग्रहाय पर्यायनप्रस्तारो लेशतोऽक्षरताडित उपदर्श्यते, तत्र प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति ध्रुवराशि कृत्वा पर्वायनमण्डलेषु प्रत्येकमेकैकं रूपं प्रक्षेप्तव्यं, भागे च तावतसङ्ख्याका भागाः, मण्डले चायनक्षेत्रे परिपूर्णे त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येतावप्रमाणमयनक्षेत्रं शोधयित्वाऽयनमयनराशौ प्रक्षेप्तव्यं, अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक् परिभावनीयः, स च प्रस्तारो ऽयं प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशदभागेषु गतेषु समाप्तं, द्वितीयं पर्व तृतीयेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य अष्टसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य एकत्रिंशद्भागेषु अष्टादशसु, तृतीयं पर्व चतुर्थेऽयने पञ्चमे मण्डले पञ्चमस्य मण्डलस्य द्वादशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य सप्तविंशतौ एकत्रिंशद्भागेषु, चतुर्थ पर्व पञ्चमेऽयने षष्ठे मण्डले षष्ठस्य मण्डलस्य सप्तदशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य पञ्चस्वेकत्रिंशद्भागेषु, पञ्चमं पर्व षष्ठेऽयने सप्तमे मण्डले सप्तमस्य मण्डलस्य एकविंशती सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य चतुर्द्दश- स्वेकत्रिंशद्भागेषु, षष्ठं पर्व सप्तेऽयनेऽष्टमे मण्डलेऽष्टमस्य मण्डलस्य पञ्चविंशतौ सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य त्रयोविं शतावेकत्रिंशद्भागेषु, सप्तमं पर्व अष्टमेऽयने नवमे मण्डले नवमस्य मण्डलस्य त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागे अष्टमं पर्व नवमेऽयने दशमे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy