SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्राभृतं १०, प्राभृतप्राभृतं - १५ -: प्राभृतप्राभृतं - १५: वृ. तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतं, सम्प्रति पञ्चदशमारभ्यते, तस्य चायमर्थाधिकारः - 'तिथयो वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह १५७ मू. (६८) ता कहं ते तिही आहितेति वदेज्जा ?, तत्थ खलु इमा दुविहा तिही पन्नत्ता, तंजा-दिवसतिही राइतिही य, ता कहं ते दिवसतिही आहितेति वदेज्जा ?, ता एगमेगस्स णं पन्नरस २ दिवसांतही पन्नत्ता, तं नंदे भद्दे जए तुच्छे पुन्ने पक्खस्स पंचमी पुनरवि नंदे भद्दे जए तुच्छे पुन्ने पक्खस्स दसमी पुनरवि णंदे भद्दे जये तुच्छे पुन्न पक्खरस पन्नरस, एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं । कह ते राईतिधी आहितेति वदेज्जा ?, एगमेगस्स णं पक्खस्स पन्नरस रातितिधी पं०, तंo - उग्गवती भोगवती जसवती सव्यसिद्धा सुहनामा पुनरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहनामा पुनरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा, एते तिगुणा तिहीओ सव्वासिं रातीणं ॥ वृ. 'ता कहं ते तिही' त्यादि, 'ता' इति पूर्ववत्, कथं ? - केन प्रकारेण केन क्रमेण तिथय आख्याता इति वदेत्, ननु दिवसेभ्यस्तिथीनां कः प्रतिविशेषः येन एताः पृथक् पृछ्यन्ते ?, उच्यते, इह सूर्यनिष्पादिता अहोरात्राः चन्द्रनिष्पादिताः तिथयः, तत्र चन्द्रमसा तिथयो निष्पाद्यन्ते वृद्धिहानिभ्यां तथा चोक्तम् , 119 11 "तं रयय कुमुयसिरिसप्पभस्स चंदस्स राइसुरुगस्स । एतिहित्ति निययं भणइ वुड्डीए हानीए ॥". तत्र वृद्धिहानी चन्द्रमण्डलस्य न स्वरूपतः किन्तु राहुविमानावरानावरणकृते, तथाहि-इह द्विविधो राहुः, तद्यथा- पर्वराहुः ध्रुवराहुश्च, तत्र यः पर्वराहुः तद्गता चिन्ताऽत्रानुपयोगिनीत्यग्रे वक्ष्यते क्षेत्रसमासटीकायां वा कृतेति ततोऽवधार्या, यस्तु ध्रुवराहुस्तस्य विमानं कृष्णं, तच चन्द्रमण्डलस्याधस्ताच्चतुरङ्गुलमसम्प्राप्तं सत् चारं चरति, तत्र चन्द्रमण्डलं बुद्धया द्वाषष्टिसङ्घयैर्भागैः परिकलप्यते, परिकल्प्य च तेषां भागानां पञ्चदशभिर्भागो हियते, लब्धाश्चत्वारो द्वाषष्टिभागाः शेषौ द्वौ भागौ तिष्ठतः । तौ च सदा ता वृद्धौ (सदानावृती) एषा किल चन्द्रमसः षोडशी कलेति प्रसिद्धि, तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुविमानं कृष्णं, तच चन्द्रमण्डलस्याधस्ताच्चतुरङ्गुलमसंप्राप्तं सत् चारं चरत् आत्मीयेन पञ्चदशेन भागेन द्वौ द्वाषष्टिभागौ सदाऽनावार्यस्वभावौ मुक्त्वा शेषषष्टिसत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य एकं चतुर्भागात्मकं पञ्चदशभागभावृणोति । द्वितीयस्यामात्मीयाभ्यां द्वाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ, तृतीयस्यामात्मीयैस्त्रिभिः पञ्चदशभार्गेस्त्रिन् पञ्चदशभागान्, एवं यावदमावास्यायां पञ्चदश भागानावृणोति, ततः शुक्लपक्षे प्रतिपदि एकं पञ्चदशभागं प्रकटीकरोति, द्वितीयस्यां द्वौ पञ्चदशभागौ तृतीयस्यां त्रीन् पञ्चदशभागान् एवं यावत् पञ्चदश्यां पञ्चदशापि भागाननावृतान् करोति, तदा च सर्वात्मना परिपूर्णं चन्द्रमण्डलं लोके प्रकटं भवति, वक्ष्यति चामुमर्थमग्रेऽपि सूत्रकृत् 'तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पडिवए पन्नरसभागेण' मित्यादिना ग्रन्थेन, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003350
Book TitleAgam Sutra Satik 16 Suryapragnapati UpangSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 16, & agam_suryapragnapti
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy