________________
प्राभृतं १, प्राभृतप्राभृतं-१
वृ. 'छप्पंचे त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तयः--परमतरूपा भवन्ति, तद्यथा-चतुर्थे प्राभृतप्राभृतेषट् प्रतिपत्तयः ४, पञ्चमे पञ्च ५, षष्ठे सप्त ७, सप्तमे अष्टौ ८, अष्टमे तिम्न ३ इति । मू. (११) पडिवत्तीओ उदए, तह अत्थमणेसुय।
भियवाए कण्णकला, मुहुत्ताण गतीति य॥ वृ.सम्प्रति द्वितीयेप्राभृते यदर्थाधिकारोपेतानित्रीणिप्राभृतप्राभृतानि तान्प्रतिपादयति
'पडिवत्ती'त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तयः-परमतरूपाः प्रतिपाद्याः स्वमतप्रतिपत्तिश्च, द्वितीये भेदधातः कर्मकलाच वक्तव्या, किमुक्तं भवति?-भेदो मण्डलस्यापान्तरालं तत्र घातो-गमनं, 'हन् हिंगत्यो' रिति वचनात्, स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं संक्रामतीति, तथा कर्ण-कोटिभागः तमधिकृत्यापरेषां मतेन कलावक्तव्या, यथा विवक्षिते मण्डलेद्वावपिसूर्यौप्रथमक्षणेप्रविष्टौ सन्तौ पूर्वापरकोटिद्वयंलक्षीकृत्यबुद्धया परिपूर्ण यथावस्थित मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्णं-कोटिभागरूपमभिसमीक्ष्य ततः कलया २--मात्रया २ इत्यर्थ : अपरमण्डलाभिमुखमभिसर्पन्तौ चारं चरत इति । तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहूर्तेषु गति-गतिपरमाणमभिधातव्यं, तत्र निष्क्रमति प्रविशति वा सूर्ये याशी गतिर्भवति ताशीमभिधित्सुराहमू. (१२) निक्खममाणे सिग्धगई पविसंते मंदगईई य।
चुलसीइसयं पुरिसाणं,तेसिं च पडिवत्तीओ।। वृ. निक्खमे त्यादि निष्क्रमन्-सर्वाभ्यन्तरान्मण्डलाद्ध हिनिर्गच्छन् सूर्यो यथोत्तरंमण्डलं सङ्कामन् शीघ्रगति शीघ्रतरगतिर्भवति, प्रविशन्-सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगति मन्दमन्दगति, तेषां च मण्डलान् चतुरशीतं-चतुरशीत्यधिकं शतं सूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहूर्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तो नाम-मतान्तररूपा भवन्ति । सम्प्रति कस्मिन्प्राभृतप्राभृते कतिप्रतिपत्तय इत्येतअरूपयति-द्वितीये प्राभृते त्रिष्ववपि प्राभृतप्राभृतेषु यथाक्रममेवंसङ्ख्याः प्रतिपत्तयो भवन्ति, तद्यधा-- मू. (१३) उदयम्मि अट्ठ भणिया भेदग्याए दुवे य पडिवत्ती।
चत्तारि मुहत्तगईए हुंति थइयंमि पडिवत्ती॥
[से तं दोच्चे पाहुडे पाहुड पाहुड पडिवत्ति संखा] वृ.-प्रथमे प्राभृतप्राभृते उदये-सूर्योदयवक्तव्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगण धरैः प्रतिपत्तयो, द्वितीये प्राभृतप्राभृते भेदघाते-भेदधातरूपे परमवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहूर्तगतौ मुहूर्तगतिवक्तव्यतोपलक्षितेचतनः प्रतिपत्तयो भवन्ति, 'चत्तारी'ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारि, यदाह पाणिनि स्वप्राकृतलक्षणे-लिङ्गं व्यभिचार्यपी'ति । सम्प्रति दशमप्राभृते यान्यपान्तरालवर्तीनि द्वाविंशतिसङ्घयानि प्राभृतप्राभृतानि तेषामर्थाधिकारमाह-दशमे प्राभृते एतानि-सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् एतदर्थाधिकारोपेतानि द्वाविंशति प्राभृतप्राभृतानि भवन्ति, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org