________________
प्राभृतं १०, प्राभृतप्राभृतं - ११
१५१ अष्टावेकष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इति जाता एकादश एकषष्टिभागाः, तत इदमागतं द्वादशात्सूर्यमार्गात परतोद्वितीयाच्चन्द्रमण्डलादकद्वे योजनेएकादशच एकषष्टिभागायोजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनद्वानन्तरं सूर्यमण्डलमतो द्वितीयाच्चन्द्रमण्डलादगभ्यन्तरं प्रविष्टं सूर्यमण्ड एकादश एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान्, ततः परंषटशिंत्रदेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलं चन्द्रमण्लसम्मिश्रं, ततः सूर्यमण्डलात्परतोबहिर्विनिर्गतं चन्द्रमण्डलमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य चतुरः सप्तभागान, ततः परं भूयस्तृतीयस्य चन्द्रमण्डलादर्वाग् यथोक्तपरिमणमन्तरं।
तद्यथा-पञ्चत्रिंश योजनानि त्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारःसप्तभागाः, एतावतिचान्तरेद्वादशसूर्यभार्गालभ्यन्ते, उपरिच द्वेयोजनेत्रयश्चैकषष्टिभागा योजनस्य कस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततोऽत्र प्रागुक्ता द्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलाद् बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः प्रक्षिप्यते, ततो जातास्त्रयोविंशतिरेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्क एकः सप्तभागः, तत इदमायांत-द्वितीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा, द्वादशाच सूर्यमार्गात्परतो योजनद्वयातिक्रमेण सूर्यमण्डलं, तच्चतृतीयाच्चन्द्रमण्डलादर्वागभ्यन्तरं प्रविष्टं त्रयोविंशतिमेकषष्टिभागान् एकं च एकषष्टिभागसत्कं सप्तभाग।
___ततःशेषाश्चतुर्विंशतिरेकषष्टिभागा एकस्य चएकषष्टिभागस्यषट्सप्तभागाः सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसम्मिश्राः ततस्तृतीयं चन्द्रमण्डलं सूर्यमण्डला बहिर्विनिर्गतमेकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं, ततो भूयोऽपि यथोक्तं चन्द्रमण्डलान्तरं तस्मिंश्च द्वादशसूयमार्गालभ्यन्ते, द्वादशस्य सूर्यमार्गस्योपरि द्वेयोजनेत्रय एकषष्टिभागायोजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततो येऽत्र तृतीतमण्डलसत्काः सूर्यमण्डलाहिर्विनिर्गता एकत्रिशदेकषष्टिभागायोजनस्य एकस्यच एकषष्टिभागस्य सत्कएकः सप्तभागस्तेऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुस्त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ततइदं वस्तुतत्वंजातं-तृतीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं तच्चतुर्थाच्चन्द्रमण्डलादर्वाक् अभ्यन्तरं प्रविष्टं चतुस्त्रिंशतमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान् ।
ततः शेषं सूर्यमण्डलस्य त्रयोदश एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ भागौइति, एतावच्चतुर्थचन्द्रमण्डलसम्मिश्र, चतुर्थस्य चचन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं द्विचत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्यसत्काः पञ्चसप्तभागाः, ततः पुनरपियथोदितपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र चाद्यचतुर्थचन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गता द्वाचत्वारिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ते अत्र राशौ प्रक्षिप्यन्ते, ततो जाताः षट्चत्वारिंशदेकषष्टिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागा, तत एवं वस्तुस्वरूपमवगन्तव्यं-चतुर्थाच्चन्द्र
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only