________________
प्राभृतं ९ प्राभृतप्राभृतं
१०३
र्नीचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा अतिनीचैस्तरां वर्त्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उच्चैरुच्चैस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतरा छाया भवति, तत एवं तथा तथा वर्त्तमानं सूर्यस्योच्चत्वं लेश्यां च प्रतीत्य छायाया अन्यथाभवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणं तत्तत्पुदगलोपचयेन तत्तत्पुद्गलहान्या वा यत् छायाया अन्यत्वं तत्केवल्येव जानाति छद्मसत्थस्तूद्देशतस्तत उक्तं छायोद्देश इति ।
'उच्चत्तं च छायं च पडुच लेसोद्देस' इति, तथा तथा विवर्त्तमानं सूर्यस्योचत्वं छायां च Aai aaरामधिकमधिकतरां च तथा तथा भवन्तीं प्रतीत्य- आश्रित्य लेश्यायाः - प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः, तथा 'लेसं च छायं च पडुच्च उच्चत्तोद्देसे' इति, लेश्यां- प्रकाश्यस्य वस्तुवो दूरं दूरतरमासन्नमासन्नतरं परिपतन्तीं छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योच्चत्वस्य तथा तथा विवर्त्तमानस्योद्देशो ज्ञातव्यः, किमुक्तं भवति ? - त्रीण्यप्येतानि प्रतिक्षममन्यथान्यथा विवर्तन्ते, तत एकस्य द्वयस्य वा तथा तथा विवर्त्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशतोऽवगमः कर्तव्य इति ।
तदेवं लेश्यास्वरूपमुक्तं, सम्प्रति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकप्रतिपत्तिसम्भवं कथयति - 'तत्थे' त्यादि, तत्र तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये एके एवमाहुः - अस्ति स दिवसो यस्मिन् दिवसे सूर्य उदगमनमुहूर्ते अस्तमयमुहूर्ते च चतुष्पौरुषीं - चतुष्पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्य वस्तुनश्चतुर्गुणां छायां निर्वर्त्तयति,
अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूर्ते च द्विपौरुषीं - द्विपुरुषप्रमाणां छायां सूर्यो निर्वर्त्तयति, अत्रापि पुरुषग्रहणमुपलक्षणं ततः सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निर्वर्त्तयतीति द्रष्टव्यं, अत्रोपसंहारः
'एगे एवमाहंस' १, एके पुनरेवमाहुः - ता इति पूर्ववत्, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूर्ते च सूर्यो द्विपौरुषीं पुरुषद्वयप्रमाणां छायां निर्वर्त्तयति, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनो द्विगुणां छायां निर्वर्तयतीत्यर्थ, तथा अस्ति स दिवसो यस्मिन् दिवसे सूर्योऽस्तमयमुहूर्ते उद्गमनमुहूर्ते च न काञ्चिदपि पौरुषीं छायां निर्वर्तयति सम्प्रत्येते एव मते भावयति - 'तत्थे 'त्यादि, तत्र - तेषां द्वयानां मध्ये ये ते वादिन एवमाहुःअस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुषीं छायां सूर्यो निर्वर्तयति, अस्ति स दिवसो यस्मिन् दिवसे सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति, एवं स्वमतविभावनार्थमाहुः - 'ता जया ण 'मित्यादि, तत्र यदा- यस्मिन् काले णमिति चाकयालङ्कारे सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्ती दिवसो भवति, जघन्या द्वादशमुहूर्त्ता रात्रि तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुपीं चतुष्पुरुषप्रमाणां छायां निर्वर्तयति, तद्यथा उद्गमनमुहूर्तेऽस्तमयमुहूर्ते च, सचोद्गमनमुहूर्त ऽस्तमयमुहूर्त्ते च चतुष्पौरुपीं छायां निर्वर्त्तयति लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरि प्लवमानां दूरं दूरतरं परिक्षिपन् चैव-नैव निर्वेष्टयन्- प्रकाश्यवस्तुन उपरि प्लवमानां प्रत्यासन्नं प्रत्यासन्नतरं परिक्षिपन् तथा सति छायाया हीनहीनतरत्वसम्भवात् ।
Jain Education International
For Private & Personal Use Only
1
www.jainelibrary.org