________________
प्रज्ञापनाउपाङ्गसूत्रं-१-१/-/-/१९१
भवाज्योतिष्काः “अध्यात्मादिभ्यः" इति इकणु, तत “इवर्णोवर्णदोसिसुसः” इति इकण् आदेरिकारस्य लोपः, अनभिधानाच्च वृध्द्यभावः, यदिवा द्योतयन्ति - शिरोमुकुटोपगूहिभिः प्रभामण्डलकल्पैः सूर्यादिमण्डलैः प्रकाशयन्तीति ज्योतिषो देवाः सूर्यादयः, तथाहि - सूर्यस्य सूर्याकारं मुकुटाग्रमागे चिह्नं चन्द्रस्य चन्द्राकारं नक्षत्रस्य नक्षत्राकारं ग्रहस्य ग्रहाकारं तारकस्य तारकाकारं तैः प्रकाशयन्तीति, आह च तत्त्वार्थभाष्यकृत् -"द्योतयन्तीति ज्योतींषि - विमानानि तेषु भवा ज्योतिष्काः, यदिवा ज्योतिषो देवाः ज्योतिष एव ज्योतिष्काः, मुकुटैः शिरोमुकुटोपगूहिभिः प्रभामण्डलैरुज्ज्वलैः सूर्यचन्द्रग्रहनक्षत्रतारकाणां मण्डलैर्यथास्वं चिह्नैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ।
तथा विविधं मान्यन्ते-उपभुज्यन्ते पुण्यवद्भिजीर्वैरिति विमानानि तेषु भवा वैमानिकाः सम्प्रति एतेषामेव क्रमेण भेदानभिधित्सुराह - 'से किं तं भवणवासी' इत्यादि, असुराश्च ते कुमाराश्च असुरकुमाराः एवं नागकुमारा इत्याद्यपि भावनीयम्, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, उच्यते, कुमारवच्चेष्टनात्, तथाहि - कुमारा इवैते सुकुमारा मृदुमधुरललितगतयः श्रृङ्गाराभिप्रायकृतविशिष्टविशिष्टतरोत्तररूपक्रियाः कुमारवबोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवच्चोल्बणरागाः क्रीडनपराश्च ततः कुमारा इव कुमारा इति ।। 'किंनरा' इत्यादि किन्नरा दशविधाः, तद्यथा - किन्नराः किंपुरषाः किंपुरुषोत्तमाः किंनरोत्तमाः हृदयङ्गमा रूपशालिनः अनिन्दिताः मनोरमा रतिप्रिया रतिश्रेष्ठाः । किंपुरुषा दशविधाः, तद्यथापुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा अतिपुरुषा महादेवा मरुतः मेरुप्रभाः यशस्वन्तः । महोरगा दशविधाः, तद्यथा - भुजगा भोगसालिनः महाकाया अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महे (हा) यक्षा मेरुकान्ता भास्वन्तः । गन्धर्वा द्वादशविधाः, हाहा: हूहूः तुम्बरवः नारदाः ऋषिवादिका भूतिवादिकाः कादम्वा महाकादम्बा रैवतांः विश्वावसवः गीतरतयः गीतयशसः यक्षास्त्रयोदशविधाः, तद्यथा - पूर्णभद्रा माणिद्रां श्वेतभद्रा हरितभद्राः सुमनोभद्रा व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा मनुष्यपक्षा वनाधिपतयः वनाहारा रूपयक्षा यक्षोत्तमाः । राक्षसाः सप्तविधाः, तद्यथा - भीमा महाभीमा विघ्ना विनायका जलराक्षसा राक्षसराक्षसा ब्रह्मराक्षसाः भूता नवविधाः, तद्यथा - सुरूपाः प्रतिरूपा अतिरकूपा भूतोत्तमाः स्कन्दो महास्कन्दा महावेगाः प्रतिच्छन्ना आकाशगाः । पिशाचाः षोडशविधाः, तद्यथा- कूष्माण्डाः पटकाः सुजाषा आह्निकाः काला महा-कालाः चोक्षा अचोक्षाः तालपिशाचा मुखरपिशाचा अधस्तारका देहा विदेहा महादेहाः तूष्णीका वनपिशाचा इति । 'कप्पोवगा कप्पाईय'त्ति कल्पः - आचारः स चेह इन्द्रसामानिकत्रायस्त्रिंशादिव्यवहाररूपः तमुपगाः- प्राप्ताः कल्पोपगाः सौधर्मेशानादिदेवलोकनिवासिनः, यथोक्तरूपं कल्पमतीताः - अतिक्रान्ताः कल्पातीताः - अधस्तनाधस्तनग्रैवेयकादिनिवासिनः, ते हि सर्वेऽप्यहमिन्द्राः, ततो भवन्ति कल्पातीताः । कल्पोपगान् दर्शयति- 'सोहम्मा ईसाणा' इत्यादि, सौधर्मदेवलोकनिवासिनः सौधर्माः ईशान देवलोकनिवासिन ईशानाः एवं सर्वत्रापि भावनीयं, भवति च तात्स्थ्यात् तद्व्यपदेशः, यथा 'पञ्चालदेशनिवासिनः पञ्चाला इति ।'
पदं - १ - समाप्तम्
७८
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता प्रज्ञापना उपाङ्ग सूत्रे प्रथम पदस्य मलयगिरि (आचार्येण) विरचिता टीका परिसमासा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org