________________
पदं, उद्देशक:-, द्वारं
वृ.
१५ प्रज्ञापनाउपाङ्गसूत्रम् - १
(सटीकं)
चतुर्थम् उपाङ्गम्-१
(श्यामाचार्य संकलितं मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः )
॥ १ ॥
नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
॥२ ॥
जयति नमदमरमुकुटप्रतिबिम्बच्छद्मविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवपङ्कतो वीरः ॥ जिनवचनामृतजलधिं वन्दे यद्विन्दुमात्रमादाय । अभवन्नूनं सत्त्वा जन्मजराव्याधिपरिहीणाः || प्रणमत गुरुपदपङ्कजमधरीकृतकामधेनुकल्पलतम् । यदुपास्तिवशान्निरुपममश्नुवते ब्रह्म तनुभाजः ॥ जडमतिरपि गुरुचरणोपास्तिसमुद्भूतविपुलमतिविभवः । समयानुसारतोऽहं विदधे प्रज्ञापनाविवृतिम् ॥
॥३॥
118 11
अथ प्रज्ञापनेति कः शब्दार्थः ?, उच्यते, प्रकर्षेण - निःशेषकुतीर्थितीर्थकरासाध्येन यथावस्थितस्वरूपनिरूपणलक्षणेन ज्ञाप्यन्ते - शिष्यबुद्धावारोप्यन्ते जीवाजीवादयः पदर्था अनयेति प्रज्ञापना, इयं च समवायाख्यस्य चतुर्थाङ्गस्योपाङ्ग, तदुक्तार्थप्रतिपादनात् उक्तप्रतिपादनमनर्थकमिति चेत्, न, उक्तानामपि विस्तरेणाभिधानस्य मन्दमतिविनेयजनानमुग्रहार्थतया सार्थकत्वात् । इदञ्चोपाङ्गमपि प्रायः सकलजीवाजीवादिपदार्थशासनात् शास्त्रं, शास्त्रस्य चादौ प्रेक्षावतां प्रवृत्त्यर्थमवश्यं प्रयोजनादित्रितयं मङ्गलं च वक्तव्यम्, उक्तं च“प्रेक्षावतां प्रवृत्त्यर्थं, फलादित्रितयं स्फुटम् ।
119 11
५
Jain Education International
मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये ॥” इति
तत्र प्रयोजनं द्विधा - परमपरं च, पुनरेकैकं द्विधा- कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिक'नयमतपर्यालोचनायामागमस्य नित्यत्वात् कर्त्तुरभाव एव, तथाचोक्तम्
"एषा द्वादशाङ्गी न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती" त्यादि, पर्यायास्तिकनयमतपर्यालोचनायां चानित्यत्वादवश्यंभावी तत्सद्भावः, तत्त्वपर्यालोचनायां तु सूत्रार्थोभयरूपत्वादागमस्यार्थापेक्षया नित्यत्वात् सूत्रापेक्षया चानित्यत्वात् कथञ्चित् कर्तृसिद्धिः, तत्र सूत्रकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः परम्परं त्वपवर्गप्राप्तिः, उक्तं च119 20 “सर्वज्ञोक्तोपदेशेन यः सत्त्वानामनुग्रहम् ।
करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥”
For Private & Personal Use Only
www.jainelibrary.org