________________
७६
प्रज्ञापनाउपाङ्गसूत्रं-9-9/-1-1१९१
॥१॥ "निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया।
पाणंतिएऽविय महावसणमि न वट्टए बीए॥ ॥२॥ ___अप्पबहुत्तालोयणविसयातीओ उद्दढ एसत्ति।
अहवा सुहभावाओ बहुगं एयं चिय इमस्स ।।" १८ । भिक्षाद्वारे-भिक्षा विहारक्रमश्च तृतीयस्यांपौरुष्यांभवति, शेषासुच पौरुषीषुकायोत्सर्गः, निद्राऽपिचास्याल्पाद्रष्टव्या, यदि पुनः कथमपिजङ्घाबलमस्यपक्षीणंभवति तथाऽप्येषोऽविहरनपि महाभागोन द्वितीयपदमापद्यते, किन्तु तत्रैव यथाकल्पमात्सीयं योगं विदधतीति, उक्तं च॥१॥ "तइयाए पोरसीए भिक्खाकालो विहारकालो उ।
सेसासुंउस्सग्गो पायं अप्पा य निद्दत्ति॥ ॥२॥ जंघाबलंमि खीणे अविहरमाणोऽविन परमावजे। .
तत्थेव अहाकपं कुणइ उ जोगं महाभागो॥" १९। (बन्धेऽष्टसप्तवा२०)एतेच परिहारविशुद्धिका द्विविधाः,तद्यथा-इत्वरायावत्कथिकाश्च, तत्र ये कल्पसमाप्तयनन्तरं कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः, ये पुनः कल्पसमाप्तयनन्तरमव्यवधानेन जिनकल्पंप्रतिपत्स्यन्तेतेयावत्कथिका;, उक्तंच-"इत्तरिय थेरकप्पे जिनकपे आवकियत्ति" अत्र स्थविरकल्पग्रहणमुपलक्षणं, स्वकल्पेचेतिद्रष्टव्यं, तत्रेत्वाराणां कल्पप्रभावाद् देवमनुष्यतैर्यग्योनिकृता उपसर्गाः सद्योघातिन आतङ्का अतीवाविषह्याश्च वेदना न प्रादुष्षन्ति, यावत्कथिकानां संभवेयुरपि, ते हि जिनकल्पं प्रतिपत्यस्यमाना जिनकल्पभावमनुविदधति, जिनकल्पिकानांचोपसर्गादयः संभवन्तीति, उक्तंच- "इत्तरियाणुवसग्गाआतंका वेयणायन हवन्ति । आवकहियाण भइआ०" इति ।
तथा सूक्ष्मो लोभाशावशेषाःसंपरायः- कषायोदयो यत्र तत् सूक्ष्मसंपरायं, तच द्विधाविशुध्यमानकं संक्लिश्यमानकंच, तत्र विशुध्यमानकंक्षपकश्रेणिमिपशमशेणिवा समारोहतः, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्य ।
'अथाख्यत'मंति अथसब्दो यथार्थे आङ् अभिविधौ याथातथ्येनाभिविधिना वा यख्यातं-कथितं अकषायं चारित्रमिति तदथाख्यातं, उक्तं च॥१॥ "अहसद्दो(उ) जहत्थे आङोऽभिविहीए कहियमक्खायं ।
चरणमकसायमुइयं तमहक्खायं जहक्खायं ॥" 'यथाख्यात मिति द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् लोके ख्यातं-प्रसिद्धं अकषायं भवति चारित्रमिति तथैव यद् तद् यथाख्यातं, तच्च द्विधा छानस्थिकं कैवलिकं च, तत्रछाद्यस्थिकमुपशान्तमोहगुणस्थानके क्षीणमोहगुणस्थानके वा कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं च । ‘सेत्तं इत्यादि उपसंहारकदम्बसूत्रं सुगमं ।
तदेवमुक्ता मनुष्याः, सम्प्रति देवप्रतिपादनार्थमाह
मू. (१९१) से किंतं देवा?, देवा चउविहापं०, तं०-भवनवासी वाणमंतरा जोइसिआ वेमाणिआ। से किं तं भवनवासी ?, भवनवासी दसविहा पं०, तं०-असुरकुमारा नागकुमारा सुवन- कुमारा विज्जुकुमारा अग्गिकुमारा दीवकुमारा उदहिकुमारा दिसाकुमारा वाउकुमारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org