SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ३१८ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६२१ 'आन्तर्मुहूर्तिकी शैलेशी मिति, शीलं चारित्रं तह निश्चयतः सर्वसंवररूपं तद् ग्राह्यं, तस्यैव सर्वोत्तमत्वात्, तस्येशः शीलेशः तस्य याऽवस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति व्यवच्छिन्नक्रियमप्रतिपाति, उक्तंच॥१॥ “सीलं व समाहाणं निच्छयओसव्वसंवरो सोय। तस्सेसो सीलेसो सेलेसी होइ तदवत्था ॥ ॥२॥ बहस्सक्खराइंमज्झेण जेण कालेण पंच भण्णंति। अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ।। तनुरोहारंभाओ झायइ सुहुमकिरियानियट्टि सो । वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ।।" न केवलं शैलेशी प्रतिपद्यते पूर्वरचितगुणश्रेणीकं च वेदनीयादिकं कर्म अनुभवितुमिति शेषः,प्रतिपद्यते च तत्पूर्वं काययोगनिरोधगतेचरमेऽन्तर्मुहूर्ते रचिता गुणश्रेणयः-प्राग्वनिर्दिष्टस्वरूपा यस्य तत्तथा, ततः किं करोतीत्यत आह ___"तीसे सेलेसिअखाए' इत्यादि, तस्यांशैलेश्यद्धायां वर्तमानोऽसद्ध्येयाभिर्गुणश्रेणीभिः पूर्वनिर्वतितामिः प्रापिता ये कर्मत्रयस्य पृथक् प्रतिसमयसमञ्जयेयाः कर्मस्कन्धास्तान् ‘क्षपयन्' विपाकतः प्रदेशतो वा वेदनेन निर्जरयन् चरमे समये वेदनीयमायुर्नाम गोत्रमित्येतान् चतुरः 'कर्माशान् कर्मभेदान् युगपत् क्षपयति, युगपच्च क्षपयित्वा ततोऽनन्तरसमये औदारिकतैजसकार्मण-रूपाणि त्रीणि शरीराणि ___ 'सव्वाहि विपजहणाहिं' इतिसर्विग्रहानैः, सूत्रेस्त्रीत्वंप्राकृतत्वात्, विप्रजहाति, किमुक्तं भवति?-यथा प्राक् देशतस्त्यक्तवान्तथा न त्यजति, किन्तु सर्वैः प्रकारैः परित्यजतीति, उक्तं “ओरालियाइ चयइ सव्वाहिं विप्पजहणाहिं जं भणियं। निस्सेस तहा न जहा देसच्चाएण सो पुल्विं ।।" परित्यज्य च तस्मिन्नेव समये कोशबन्धविमोक्षलणसहकारिसमुत्थस्वभावविशेषादेरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षणसहकारिसमुत्थस्वभावविशेषदूर्ध्व लोकान्ते गत्वेति सम्बन्धः, उक्तंच॥१॥ “एरण्डफलं च जहा बंधच्छे देरियं दुयं जाति। तएकम्म बंधणछेदणेरितो जाति सिद्धोवि ॥" कथं गच्छतीत्यत आह-'अविग्रहेण विग्रहस्याभावोऽविग्रहः तेन एकेनसमयेनास्पृशन्, समयान्तरप्रदेशान्तरास्पर्शनेनेत्यर्थः, ऋजुश्रेणिंचप्रतिपन्नः, एतदुक्तं भवति यावत्स्वाकाशप्रदेशेविहावगाढस्तावत एव प्रदेशानूर्ध्वमृजुश्रेण्याऽवगाहमानो विवक्षित्ताच्च समयादन्यत्समयान्तस्मस्पृशन् गत्वा, तथा चोक्तमावश्यकचूर्णो-“जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उद उज्जुगंगच्छति न वंकं, बिइयं च समयं न फुसइ" इति, भाष्यकारोऽप्याह ॥१॥ "रिउसेढिं पडिवनो समयपएसंतरं अफुसमाणो । एगसमएणं सिज्झइ अह सागरोवउत्तो सो॥" इत्थमूर्ध्वं गत्वा किमित्याह-साकारोपयुक्तः सन् सिध्यति-निष्ठितार्थो भवति, सर्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy