________________
३०८
प्रज्ञापनाउपाङ्गसूत्रम् -२- ३६/-/-/६१४
भगवानाह -- गौतम ! नायमर्थः समर्थः उपपन्न इत्यर्थः, पुनर्गौतम : प्रश्नयति
'सेकेणणं भंते!' इत्यादि, उत्तानार्थ, भगवानाह - गौतम ! 'अयण्ण' मित्यादि, अयंप्रत्यक्षत उपलभ्यमानः, णमिति वाक्यालङ्कारे, अष्टयोजनोच्छ्रितया रत्नमय्या जम्ब्वा उपलक्षितो द्वीपो जम्बूद्वीपो द्वीपः, 'सर्वाभ्यन्तरक' इति सर्वेषामभ्यन्तरो मध्यवर्तती सर्वाभ्यन्तरः सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः "जातौ वा स्वार्थे क" इति प्राकृतलक्षणवशात् स्वार्थे कप्रत्ययः, केषां सर्वेषामभ्यन्तर इत्याह- सर्वद्वीपसमुद्राणां तथाहि - सर्वे - अशषा द्वीपसमुद्रा जम्बूद्वीपादारभ्यागमाभिहितेन क्रमेण द्विगुणद्विगणविस्तारा व्यवस्थिताः ततो भवति द्वीपसमुद्राणामेव जम्बूद्वीपोऽभ्यन्तरः, तथा 'सव्वखुड्डागे' इति सर्वेभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको ह्रस्वः सर्वक्षुल्लकः, तथाहि - सर्वे लवणादयः समुद्राः सर्वे च घातकीखण्डादयो द्वीपाः अस्माज्जम्बूद्वीपादारभ्य प्रवचनोक्तेन क्रमेण द्विगुणद्विगुणचक्रवालवितताः ततः शेष द्वीपसमुद्रापेक्षयाऽयं सर्वलघुरिति, तथा वृत्ती-वर्तुलो, यतस्तैलापूपसंस्थानसंस्थितः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव संस्थानसंस्थितः, तथा वृत्तो जम्बूद्वीपो द्वीपो यतो रथचक्रवालसंस्थानसंस्थितः, रथस्य- रथाङ्गस्य चक्रस्य चक्रवालं - मण्डलं तस्येव यत् संस्थान तेन संस्थितः, एवं सूत्रोक्तमन्यदपि पदद्वयं भावनीयं, 'आयामविक्खंभेणं' ति आयामश्च विष्यकम्भश्चेति समाहारो द्वन्द्वः तेन आयामेन विष्कम्भेन च प्रत्येकमेकं योजनशतसहनमित्यर्थः, परिधिपरिमाणानयनगणितंच जम्बूद्वीपप्रज्ञप्त्यादावनेकशो भावितमिति ततोऽवधार्यं
'देवेण 'मित्यादि, देवश्च णमिति वाक्यालङ्कारे 'महर्द्धिक' इति महती ऋद्धी:- विमानपरिवारादिका यस्या सौ महर्द्धिकः 'जाव महासोक्खे' इति यावत्शब्दकरणात् 'महज्जुइए महाबले महायसे' इति द्रष्टव्यं तत्र महती द्युतिः - शरीराभरणविषया यस्य स महाद्युतिः, महद्वदुबां - शारीरः प्राणो यस्य स महाबलः महत् यशः - ख्यातिर्यस्य स महायशाः, तथा महत्-प्रभूतं सौख्यं यस्य प्रभूतसवेद्यकर्मोदयभावादिति महासौख्यः, क्वचित् - 'महेसक्खे' इति पाठः, तत्र महान् ईश- ईश्वर इत्याख्या - शब्दप्रथा यस्य लोके स महेशाख्यः, अथवा ईशनमीशो, भावे धञ्प्रत्ययः, ऐश्वर्यमित्यर्थः ईश ऐश्वर्ये' इति वचनात्, तत ईशं-ऐश्वर्यमात्मनः ख्याति-अन्तर्भूतण्यर्थतया ख्यापयति प्रकाशयति तथा परिवारादिस्फीत्या वर्त्तते इति ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः अन्यत्र 'महासक्खे' इति वा पाठः, तत्रैवं वृद्धव्यख्या- आशुगमनादश्चं - मनः अक्षाणि - इन्द्रियाणि स्वस्व - विषयव्यापकत्वात्, अक्षशब्दो हि प्रायेणाशुङ्व्याप्तावित्यस्य वातोर्निष्पाद्यते, अश्वश्चाक्षाणि च अश्वाक्षाणि महान्ति - स्फीतिमन्ति अश्वाक्षाणि यस्यासौ महाश्वाक्षः, स्फीतमनाः स्फूर्तिमचक्षुरादीन्द्रियश्चेत्यर्थः, एकं महान्तं-अतिगुरुकमन्यथा स्तोकतया तद्वतैर्गन्धपुद्गलैः सकलस्य जम्बूद्वीपस्य व्याप्तुमशक्यत्वात्,
'सविलेवण' मिति सह विशष्टं - अतिसूक्ष्मरंध्राणामपि स्थमनात् लेपनं लेपो-जत्वादिकृतं पिधानमुपरि वर्त्तते येन स तथातं, विशिष्टलेषप्रदानाबावे हि बहवः सूक्ष्मरन्त्रैर्गन्धपुद्गला निर्गच्छन्ति तत उद्घाटनवेलायां तेषां स्तोकीभावेन सकलजम्बूद्वीपापूरणं नोपपद्यते, 'गंधसमुग्गयं'तिगन्धद्रव्यैरतिविशिष्टैः परिपूर्णं भृतः समुद्गको गन्घसमुद्ग कस्तं 'अवदालेइ' त्ति अवदालयति उत्पाटतीत्यर्थः, 'इणामेवे 'ति एवमेवेत्यर्थः 'केवलकप्पं' ति केवलं केवलज्ञानं तत्कल्पं परिपूर्णतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org