SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रं - १- १/-/-/१६६ निरौत्सुक्या मार्दवार्जवसंपन्नाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादौ ममत्वकारणे ममत्वाभिनिवेशरहिताः सर्वथाऽपगतवैरानुबन्धा हस्त्यश्वकरभगोमहिशष्यादिसद्भावेऽपि तत्परिभोगपरामुखाः पादविहारिणो ज्वरादिरोगयक्षभूतपिशाचादिग्रहमारिव्यसनोपनिपातविकलाः परस्परप्रेष्यप्रेषकभावरहितत्वादहमिन्द्राः, तेषां पृष्ठकरण्डकानि चतुःषष्टिसंख्याकानि चतुर्थातिक्रमे चाहारग्रहणं, आहारोऽपि च न शाल्यादिधान्यनिष्पन्नः किन्तु पृथ्वीमृत्तिका कल्पद्रुमाणां पुष्पफलानि च, तथाहि जायन्ते खलु तत्रापि विनसात एव शालिगोधूममाषमुद्गादीनि धान्यानि, परं न तानि मनुष्याणामुपभोगं गच्छन्ति, या तु पृथ्वी सा शर्करातोऽप्यनन्तगुणमाधुर्या, यश्च कल्पद्रुमपुष्पफलानामास्वादः स चक्रवर्तिभोजनादप्यधिकगुणः, तथा चोक्तम्- "तेसिणं भंते ! पुप्फफलाणं केरिसए आसाए पन्नते ?, गोयमा! से जहानामए रन्नो चाउरंतस्स चक्कवट्टिस्स कल्लाणे भोयणजाए सय सहस्सनिफन्ने वन्नोवए रसोवए फासोवए आसायणिज्जे दप्पणिज्जे मयणिजे बिंहणिजे सव्वेंदियगायपल्हायणिज्जे आसाएणं पन्नत्ते, एत्तोवि इट्ठतराए चेव पन्नत्ते" । ततः पृथ्वी कल्पद्रुमपुष्पफलानि च तेषामाहारः, तथाभूतं चाहारमाहार्य प्रासादादिसंस्थाना ये गृहाकाराः कल्पवृक्षास्तेषु यथासुखमवतिष्ठन्ते, न च तत्र क्षेत्रे दंशमशकयूकामत्कुणमक्षिकादयः शरीरोपद्रवकारिणो जन्तव उपजायन्ते, येऽपि च जायन्ते भुजगव्याघ्रसिंहादयस्तेऽपि मनुष्याणां न बाधायै प्रभवन्ति, नापि ते परस्परं हिंस्यहिंसकभावे वर्तन्ते, क्षेत्रानुभावतो रौर्दानुभावरहितत्वात्, मनुष्ययुगलानि च पर्यवसानसमये युगलं प्रसुवते, तच्च युगलमेकोनाशीतिदिनानि पालयन्ति, तेषां शरीरोच्छ्रयोऽष्टौ धनुःशतानि, पल्योपमासंख्येयभागप्रमाणमायुः, उक्तं च"अन्तरदीवेसु नरा धणुसयमडुसिया सया मुइया । पालंति मिहुणधम्मं पल्लस्स असंखभागाऊ ॥ चउसट्टि पिट्टकरंडयाणि मणुयाणा तेसिमाहारो । भत्तस्स चउत्थरस य गुणसीइदिणाणि पालणया ।।" 119 11 ६० ॥ २ ॥ स्तोककषायतया स्तोकप्रेमानुबन्धतया च ते मृत्वा दिवमुपसर्पन्ति, मरणं च तेषां जृम्भिकाकासक्षुतादिमात्रव्यापारपुरस्सरं भवति, न शरीरपीडारम्भपुरस्सरमिति । तदेवमुक्ता अन्तरद्वीपगाः ।। साम्प्रतमकर्मभूमकप्रतिपादनार्थमाह- अथ के तेऽकर्मभूमकाः ?, सूरिराह - अकर्मभूम- कास्त्रिंशद्विधाः प्रज्ञप्ताः, तच्च त्रिंशद्विधत्वं क्षेत्रभेदात्, तथा चाह - 'तंजहापंचहि हेमवएहिं इत्यादि, पञ्चभिर्हेमवतैः पञ्चभिर्हेरण्यवतैः पञ्चभिर्हरिवर्षैः पञ्चमी रम्यकवर्षेः पञ्चभिर्देवकुरुभिः पञ्चभिरुत्तरकुरुभिर्भिद्यमाना त्रिंशद्विधा भवन्ति, षण्णां पञ्चानां त्रिंशत्संख्यात्मकत्वात् । तत्र पञ्चसु हैमवतेषु पंचसु हैरण्यवतेषु मनुष्या गच्यूतप्रमाणशरीरोच्छ्रयाः पल्योपमायुषो वज्रर्षभनाराचसंहननाः समचतुरनरसंस्थानाः चतुःषष्टिपृष्ठकरण्डकाश्चतुर्थातिक्रमभोजिन एकोनाशीतिदिनान्यपत्यपालकाः, उक्तं च "गाउयमुच्चा पलिओचमाउणो वज्ररिसहसंघयणा । हेमवएरन्नवए अहमिंदनरा मिहुणवासी || चउसकी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य गुणसीदिणऽ वच्चपालणया ।।" For Private & Personal Use Only ॥१॥ ॥ २ ॥ Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy