SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ पदं - ३६, उद्देशक:-, द्वारं - २९५ वाणमंतरस्स जहा असुरकुमारस्स एवं जोइसियवेमाणियाणंपि' अस्यामर्थः - नैरयिकस्य नैरयिकत्वे अतीता लोभसमुद्घाता अनन्ताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात्, पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचित्र सन्ति, तत्र यः प्रश्नसमयादूर्द्धं लोभसमुद्घातमप्राप्त एव नरकभवादुवृत्त्यानन्तरं पारम्पर्येण वा सेत्स्यति न च भूयो नरकमागामी न चागतऽपि लोभसमुद्घातं गन्ता तस्य नेकौऽपि पुरस्कृतो लोभसमुद्घातः, शेषस्य तु भावी, तस्यापि कस्यचिदेकः कस्यचित् द्वौ कस्यचित् त्रयः, एतच्च प्रश्नसमयादूर्ध्वमपि तद्भवभाजां सकृन्नारकभवगामिनां वा वेदितव्यं, उत्कर्षतः सङ्घत्येया वा असङ्घयेया वा अनन्ता वा, तत्र सङ्घयेयान् वारान् नरकभवभागामिनः सङ्घयेयाः असङ्घयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, तथा नैरयिकत्वस्यासुरकुमारत्वविषयेऽ तीतसूत्रं तथैव भावनीयं, पुरस्कृतसूत्रे 'कस्सइ अत्थि क० नत्थि 'त्ति यो नरकभवादुवृ त्तो नासुरकुमारत्वं प्राप्स्यति तस्य न सन्त्यसुरकुमारत्वविषयाः पुरस्कृताः लोभसमुद्घाताः, यस्तु प्राप्स्यति तस्य सन्ति, ते च जघन्यपदे सङ्घत्येयाः, जघन्यस्थितावप्यसुरकुमाराणां सङ्घयेयानां लोभसमुद्घातानां भावात्, लोभबहुलत्वात् तेषां उत्कृष्टपदेऽसत्येया अनन्ता वा, तत्र सकृद्दीर्धस्थितावसकृजधन्यस्थितिषु दीर्घस्थितिषु वा उत्पत्स्यमानानामवसेयं, अनन्तश उत्पत्स्यमानानामनन्ताः, एवं नैरयिकस्य नागकुमारत्वादिषु स्थानेषु निरन्तरं तावद्वक्तव्यं यावत्स्तनितकुमारत्वे, तथा चाह 'एवं जाव थणियकुमारत्ते' पृथिवीकायिकत्वेऽतीतसूत्रं तथैव, पुरस्कृतचिन्तायां तु कस्यापि सन्ति कस्यापि न सन्ति तत्र नरकादुवृ त्तो यो न पृथिवीकायिकत्वं प्राप्स्यति तस्य न सन्ति, योऽपि गन्ता तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असत्या अनन्ता वा, ते चैवम् - तिर्यक्पश्ञ्चेन्द्रियभवात् मनुष्यभवाद्धा लोभसमुद्घातेन समुद्धतः सन् य एकं वारं पृथिवीं गन्ती तस्य एको द्वौ वारी गन्तुद्व त्रीन् वारान् गन्तुस्त्रयः सङ्घयेयान् वारान् सङ्कयेयाः असङ्ख्येयान् वारान् असङ्ख्येयाः अनन्तान् वारान् अनन्ताः, 'एवं जाव मणूसत्ते' इति एवं पृथिवीकायिकगतेनाभिलापप्रकारेण तावद्वक्तव्यं यावन्मनुष्यत्वे, तचैवं - 'एगमेगस्स णं भंते! नेरइयस्स आउकाइयत्ते' इत्यादि, यावन्मनुष्यसूत्रं, तत्रान्कायिकादिवनस्पतिपर्यन्तसूत्रभावना पृथिवीकायसूत्रवत्, द्वीन्द्रियसूत्रे पुरस्कृतचिन्तायां जघन्येन एको द्वौ वा यो वेति एतत् सकृत् द्वीन्द्रियभवं प्राप्तुकामस्य वेदितव्यं, उत्कर्षेणं सङ्घयेया असङ्घयेया अनन्तावा, तत्र सङ्घयेयान् वारान् द्वीन्द्रियभवं प्राप्तुकामस्य सङ्घयेया असङ्घयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, एवं त्रीन्द्रियततुरिन्द्रियसूत्रे अपि भावनीये, तिर्यक्पञ्चेन्द्रियसूत्रविषया त्वेवं भावना - सकृत् पञ्चेन्द्रियभवं गन्तुकामस्य स्वभावत एवाल्पलोभस्य जघन्यतः एको द्वी यो वा, शेषस्य तत्कर्षतः सङ्घयेयान् वारान् तिर्यक्ञ्चेन्द्रियभवं गन्तुः सङ्घयेयाः असङ्घयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः, मनुष्यसूत्रे तु पुरस्कृतविषया भावना मूलत एवं यो नरकभवादुवृत्तोऽल्पलोभकषायः सन् मनुष्यभवं प्राप्य लोभसमुद्घातमगत्वा सिद्धिपुरं यास्यति तस्य न सन्ति पुरस्कृता लोभसमुद्घाताः शेषस्य तु सन्ति, यस्य सन्ति तस्यापि जघन्यत एको द्वौ वा त्रयो वा ते च एकं द्वौ त्रीन् वा लोभसमुद्घातान् प्राप्य सेत्स्यतो वदितव्याः, सङ्घयेयादयः प्राग्वद् भावनीयाः, 'वाणमंतरत्ते जहा असुरकुमारा' इति यथा नैरयिकस्यासुरकुमारत्वे पुरस्कृतविषये सूत्रमुक्तं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy