SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६ २८६ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-४६०६ सङ्घयेयैनरिकैर्नरकादुवृत्त्यानन्तर्येण पारम्पर्येण वातदा तदा मनुष्यत्वावाप्तौ चतुर्दशपूर्वाण्यधीत्य प्रत्येकमाहारकसमुद्घातानामे कशी द्वि:त्रिश्चतुर्वा करिष्यमाणत्वात, "एवं जाव वेमाणियाण'मिति नैरयिकाणां चतुर्विंशतिदण्डकक्रमेण चिन्ता कृता एवमसुरकुमारादीनामपिप्रत्येकंचतुर्विंशति-दण्डकक्रमेण तावद्वक्तव्या यावद्वैमानिकानां, केवलं यत्रास्ति विशेषस्तंदर्शयति-'नवर'मित्यादि, नवरंवनस्पतिकायिकानांमनुष्यत्वचिन्तायामतीताः पुरस्कृताश्चप्रत्येकमनन्ता वक्तव्याः,अनन्तानांपूर्वमधिगतचतुर्दशपूर्वाणां यथायोगमेकशो द्विः त्रिर्वा कृताहारकसमुद्घातानांवनस्पतिष्ववस्थानात् अनन्तरमेव वनस्पतिकायादुद्दे त्यानन्तर्येण पारम्पर्येण वामानुषत्वमवाप्य यथायोग्यमेकसोद्विः त्रिश्चतुर्वाऽऽहारकसमुद्घातानां निर्वतयिष्यमाणत्वात, मनुष्याणां मनुष्यत्वावस्थायामतीताः, पुरस्कृताश्च स्यात्सङ्खयेयाः स्यादसङ्घयेयाः, कथमिति चेत्, उच्यते, तेहि प्रश्नसमयभाविनः उत्कर्षपदेऽपिसर्वस्तोकाः, श्रेण्यसङ्ख्येयाभागगतप्रदेशराशिप्रमाणत्वात्, ततो विवक्षितप्रश्नसमयभाविनां मध्ये कदाचिदसङ्ख्येयाः-यथायोगं प्रत्येकमेकशी द्विः त्रिश्चतुर्वा कृतकरिष्यमाणा-हारकसमुद्घाताः प्राप्यन्ते, उपसंहारमाह एव'मित्यादि, एवमुक्तेन प्रकारेण एते आहारकसमुद्घातविषयाश्चतुर्विंशतिश्चतुविंशतिसङ्ख्याका दण्डका वक्तव्याः, सम्प्रति केवलिसमुद्घातं चिन्तयति-'नेरइयाण'मित्यादि, केवलिसमुद्घातोऽपि मनुष्यत्वावस्थायां भवति, न शेषास्वस्थासु, न च कृतकेवलिसमुद्घातः संसारंपर्यटति, केवलिसमुद्घातानन्तरमन्तर्मुहूर्तेनावश्यं निःश्रेयसपदाधिगमात्, ततो नारकाणां मनुष्यत्ववासु शेषास्ववस्थास्वतीताः पुरस्कृताश्च केवलिसमुद्घाताः प्रतिषेद्धव्याः, मनुष्यत्वावस्थायामप्थतीताः प्रतिषेद्धव्याः, कृतकेवलिसमुद्घातानां नरके गमनाभावात्, भाविनश्च भविष्यन्ति, प्रश्नसमयभाविनां मध्ये बहूनामसङ्घयेयानां नारकाणां मुक्तिपदगमनयोग्यत्वात्, ततः पुरस्कृताअसङ्घयेया इत्युक्तं, एव'मित्यादि, यथा नैरयिकाणां केवलिसमुद्घातचिन्ता कृता एवमसुरकुमारादीनामपि कर्तव्या, सा च तावत् यावत् वैमानिकानां, अत्रैव विशेषमाह __ 'नवर मित्यादि, नवरंवनस्पतिकायिकानांमनुष्यत्वावस्थाचिन्तायामतीताःप्रतिषेद्धव्याः, कृतकेवलिसमुद्घातानां संसाराभावात, पुरस्कृतास्त्वनन्तावाच्याः,प्रश्नसमयभाविनां वनस्पतिकायिकानांमध्ये बहूनामनन्तानां वनस्पतिकायिकानांवनस्पतिकायादुद्धृत्यानन्तर्येण पारम्पर्येण वा कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात्, मनुष्याणां मुष्यात्वावस्थाचिन्तायामतीताः कदाचित्सन्ति कदाचिन्न सन्ति, कृतकेवलिसमुद्घातानां सिद्धत्वभावादन्येषां चाद्यपि केवलिसमुद्घाताप्रतिपत्तेः, यदापि सन्तितदाऽपिजघन्यतएको द्वौ वा त्रयोवाउत्कर्षतः शतपृथक्तवं, पुरस्कृताः स्यात्सङ्ख्येयाः स्यादसङ्खयेया;, प्रश्नसमयभाविनां मनुष्याणांमध्ये कदाचित्सयेयानां कदाचिदसङ्घयेयानां यथायोगमानन्तर्येण पारम्पर्येण कृतकेवलिसमुद्घातानां सेत्स्यमानत्वात्, सूत्रसर्वसङ्घयामाह-एवमुक्तेन प्रकारेण एते केवलिसमुद्घातविषयाश्चतुर्विंशतिश्चतुर्विंशतिदण्डकाःतेचसर्वेऽपिपृच्छायां-पृच्छापुरस्सरंभणितव्याः कियडूरंयावदित्याहवैमानिकानां वैमानिकत्वविषयं सूत्रं, तच्चेदं-'वेमाणियाणं भंते ! वेमाणियत्ते केवइया केवलिसमुग्घाया अतीता?, गो०१ नत्थि, के० पु०?, गो०! नत्थि' इति॥तदेवमुक्ता नैरयिकादिषु वैमानिकपर्यवसानेष्वेकत्वविशिष्टेषु बहुत्वेविशिष्टेषु च भूतभाविवेदनादिसमुद्घात Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy