SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनाउपाङ्गसूत्रम् - २ -- ३६/- / / ६०३ वेदनासमुद्घातप्रचुरत्वान्नारकाणामिति, उत्कर्षतः सङ्घयेया असङ्घयेया वा अनन्ता वा, तत्र सकृत नरकेषु जघन्यस्थितिषूत्पत्स्यमानलस्य सङ्घयेयाः अनेकशो दीर्घस्थितिषु असकृद्वा उत्पत्स्यमानस्य असङ्घयेयायः अनन्तशः उत्पत्स्यमानस्य अनन्ताः, 'एव' मित्यादि, एवं नैरयिकगतेनभिलापप्रकारेणासुरकुमारत्वेन तदनन्तरं चतुर्विंशतिदण्डकक्रमेण निरन्तरं तावद्वाच्यं यावद्वैमानिकत्वे, तचैवम्- 'एगमेगस्स णं भंते! नेरइयस्स असुरकुमाराओकेवइया वेदनासमुग्धाया अतीता ?, गो० ! अनंता, केवइया पुरेक्खडा ?, गो० ! कस्सइ अत्थि कस्सइ नत्थि, जस्स अस्थि जहणं एक्को वा दो वा तिनि वा उक्कोसेणं सहेजा वा असंजा वा अनंता वा' तत्रातीतसूत्रेऽनन्तशोऽसुरकुमारत्वस्य प्राप्तत्वादुपपद्यते तद्भवमापन्नस्यानन्ता अतीता वेदनासमुद्घाताः, पुरस्कृतचिन्तायां योऽनन्तरभवेन नरकावृ त्तो मानुष्यं प्राप्य सेत्स्यति प्राप्तो वा परम्परया सकृतसुकुमारभवं न वेदनासमुद्घातं गमिष्यति तस्य नास्त्येकोऽपि पुरस्कृतो असुरकुमारत्वे वेदनासमुद्घातः, यस्तु सकृदसुरकुमारत्वं प्राप्तः सन् सकृदेव वेदनासमुद्धातां गन्ता तस्य जघन्यत एको द्वौ वा त्रयो वा शेषस्य सङ्कयेयान वारान् असुरकुमारत्वं यास्यतः सङ्घयेया असङ्घयेयान् वारान् असङ्घयेया अनन्तान् वारान् अनन्ताः एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्थानेषु निरन्तरं सूत्रपाठस्तावद् वक्तव्यो यावद्वैमानिकत्वविषयं सूत्रं, ? २७८ 'एगमेगस्स ण' मित्यादि, एकैकस्य भदन्त ! असुरकुमारस्य पूर्वं नैरयिकत्वेन वृत्तस्य सतः सकलमतीतं कालमपेक्ष्य सर्वसङ्ख्यया कियन्तो वेदनासमुद्घाता अतीताः ?, भगवानाह - गौतम ! अनन्ता अतीताः, अनन्तशो नैरयिकत्वस्य प्राप्तत्वात् एकैकस्मिंश्च नैरयिकस्य भवे जघन्यपदेऽपि सङ्घयेयानां वेदनासमुद्घातानां भावात्, कियन्तः पुरस्कृताः ?, स्यात् सन्ति स्यान सन्ति, कस्यचित्सन्ति कस्यचिन्न सन्ति इति भावः, अत्रापीयं भावना - योऽसुरकुमारभवादुवृ त्तो न नरकं यास्यति किन्त्वनन्तरं परम्परया वा मनुजभवं प्राप्य सेत्स्यति तस्य नरयिकत्वास्थाभाविनः पुरस्कृता वेदनासमुद्घाता न सन्ति, नैरयिकत्वावस्थाया एवासम्भवात्, यस्तु तद्भवादूर्ध्वं पारम्पर्येण नरकं गमिष्यति तस्य सन्ति, तत्रापि कस्यचित्सङ्घयेयाः कस्यचिदसङ्ख्येयाः कस्यचिदनन्ताः, तत्र यः सकृज्जघन्यस्थितिषु मध्ये समुत्पत्स्यते तस्य जघन्यपदेऽपि सङ्घत्येयाः, सर्वजघन्यस्थितावपि नरकेषु सङ्घयेयानां वेदनासमुद्घातानां भावात्, वेदनाबहुलत्वान्नारकाणां असकृद् जघन्यस्थितिषु दीर्घस्थितिषु सकृदसकृद्वा गमने असङ्ख्येयाः, अनन्तशो नरकगमने अनन्ताः, तथा एकैकस्य भदन्त ! असुरकुमारस्यासुरकुमारत्वे स्थितस्य सतः सकलमतीकालमधिकृत्य कियन्तो वेदनासमुद्घाता अतीताः ?, भगवानाह - गौतम ! अनन्ताः, पूर्वमप्यनन्तशस्तद्भावस्य प्राप्तवात्, प्रतिभवं च वेदनासमद्घातस्य प्रायो भावात्, पुरस्कृतचिन्तायां कस्यचित् सन्ति कस्यचिन्न सन्ति, यस्य प्रश्नसमयादूर्ध्वसुरकुमारत्वेऽपि वर्त्तमानस्य न भावी वेदनासमुद्घातो नापि तत उद्वृ त्त्य भूयोऽप्यसुरकुमारत्वं प्राप्यस्ति तस्य न सन्ति यस्तु सकृत् प्राप्स्यति तस्य जघन्यपदे एको द्वौ वा त्रयो वा उत्कर्षतः सङ्घयेया असङ्घयेया अनन्ता वा, सङ्घयेयान् वारान् उत्पत्स्यमानस्य सङ्घयेयाः असङ्घयेन् वारान् असङ्केययाः अनन्तान् वारान् अनन्ताः, एवं चतुर्विंशतिदण्डकक्रमेण नागकुमारत्वादिषु स्वस्थानेष्वसुरकुमारस्य निरन्तरं तावद्वक्तव्यं यावद्वैमानिकत्वे, तथा चाह'एवं नागकुमारत्तेवि' इत्यादि, तदेवमसुरकुमाराणां वेदनासमुद्घातश्चिन्तितः सम्प्रति नागकुमारादिष्वतिदेशमाह- 'एव' मित्यादि, उपदर्शिताभिलापेन यथा चतुर्विंशतिदण्डकक्रमेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy