SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ २३३ पदं-२८, उद्देशकः-२, द्वार-११ - पदं - २८, उद्देशकः-२ -दारं-११ "वेद" :मू. (५६९) सवेदे जीवेगिंदियवजो तियभंगो, इत्यिवेदपुरिसवेदेसुजीवादिओतियभंगो, नपुंसगवेदए य जीवेगिंदियवजो तियभंगो, अवेदए जहा केवलनाणी। वृ. गतं उपयोगद्वारं, वेदद्वारेसामान्यतः सवेदसूत्रमेकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीव पदमेकेन्द्रियांश्च वर्जयित्वा शेषेषु स्थानेषु भङ्गत्रिक, जीवपदे एकेन्द्रियेषु च पुनः प्रत्येकमभङ्गाकं, आहारकाअनाहारका अपीति, स्त्रीवेदसूत्रपुरुषवेदसूत्रंच एकवचने तथैव, नवरमत्र नैरयिकैकेन्द्रियविकलेन्द्रियान वक्तव्याः तेषां नपुंसकत्वात्, बहुवचने जीवादिषुपदेषु प्रत्येकं भङ्गत्रिक, नपुंसकवेदेऽपि सूत्रमेकवचने तथैव, नवरमत्र भवनपति व्यन्तरज्योतिष्कवैमानिकान वक्तव्यास्तेषामनपुंसकत्वाद्, बहुवचने जीवैकेन्द्रियवर्जेषु भङ्गत्रिकं, जीवपदे एकेन्द्रियपदेषुच पृथिव्यादिषु पुनरभङ्गकं प्रागुक्तस्वरूपमिति, अवेदो यथा केवली तथा एकवचने बहुवचने च वक्तव्यः, जीवपदे मनुष्यपदे च एकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवपदे आहारका अपिअनाहारकाअपि, मनुष्येषु भङ्गत्रिकं, सिद्धत्वेऽनाहारका इति वक्तव्यमिति भावः। पदं-२८, उद्देशका-२-वारं १२ "शरीरं":मू. (५७०) ससरीरीजीवेगिंदियवजोतियभंगो, ओरालियसरीरी जीवमणूसेसुतियभंगो, अवसेसा आहारगा नो अनाहारगाजेसिं अस्थि ओरालियसरीरं, वेउब्वियसरीरी आहारगसरीरी य आहारगा नो अना० जेसिं अस्थिस तेयकम्मसरीरीजीवेगिंदियवजोतियभंगो, असरीरीजीवा सिद्धाय नो आहारगा अना०। वृ.गतं वेदद्वारं,शरीरद्वारेसामान्यतःशरीरसूत्रे सर्वत्रैकवचने स्यादाहारकः स्यादनाहारक इति, बहुवचने जीवएकेन्द्रियवर्जेषु शेषेषुस्थानेषु प्रत्येकं भङ्गत्रिकं, जीवपदे पृथिव्यादिपदेषु च प्रत्येकमभङ्गाकं प्रागुक्तमिति, औदारिकशरीरसूत्रमेकवचनेतथैव, नवरमत्र नैरयिकभवनपतिव्यन्तरज्योतिष्कवैमानिका न वक्तव्यास्तेषामौदारिकशरीराभावात्, बहुवचने जीवपदे मनुष्यपदेषु च प्रत्येकं भङ्गत्रिकं, तद्यथा-सर्वेऽपि तावद्भवेयुराहारकाः एष भङ्गो यदा न कोऽपि केवली समुद्घातगतोऽयोगी वा, अथवा आहारकाश्चानाहारकश्च, एष एकस्मिन् केवलिनि समुद्घातगते अयोगिनि वा सति प्राप्यते, अथवा आहारकाश्चानाहारकाश्च, एषं भङ्गो बहुषु केवलिसमुद्घातगतेषु अयोगिषु वा सत्सु वेदयितव्यः, शेषास्त्वेकेन्द्रियद्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियतिर्यक्पञ्चेन्द्रिया आहारका एव वक्तव्याः, न त्वानाहारकाः, विग्रहगत्युत्तीर्णानामेवौदारिकशरीरसम्भवात्, वैक्रियआहारकशरीरिणश्च सर्वेऽप्येकवचने बहुवचने चाहारका एव न त्वनाहारकाः, नवरं येषां वैक्रियमाहारकं वा सम्भवति त एव वक्तव्या नान्ये, तत्र वैक्रियं नैरयिकभवनपतिवायुकायिकतिर्यस्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिकेषु आहारकं मनुष्यष्वेव, सूत्रोल्लेखश्चायं-'वेउब्बियसरीरी णं भंते ! जीवे किं आहारए अनाहारए?, गोयमा! आ० नो अना०, वेउब्वियसरीरे णं भंते ! नेरइए किं आहारए अनाहारए ?, गो० ! आ० नो अना०' इत्यादि, तैजसकार्मणशरीरिसूत्रे चैकवचने सर्वत्र स्यादाहारकः स्यादनाहारक इति, बहुवचने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy