SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ पदं - २३, उद्देशकः - २, द्वारं - कषायषोडशकस्य जघन्यतश्चत्वारः सागरोपमस्य सप्तभागाः पल्योपमासङ्घयेयभागोना उत्कर्षतस्त एव परिपूर्णाः पुरुषवेदहास्यरतिप्रशस्तविहायोगतिस्थिरादिषट्कप्रथमसंस्थानप्रथमसंहननशुक्लवर्णसुरभिगन्धमधुररसोच्चैर्गोत्राणां जघन्यत एकः सागरोपमस्य सप्तभागः पल्योपमासङ्घयेयभागहीनः उत्कर्षतः स एव परिपूर्णः, द्वितीयसंस्थानसंहननयोः जघन्यतः षट् पञ्चत्रिंशभागाः पल्योपमासङ्घयेयभागहीना उत्कर्षतस्त एव परिपूर्णाः, तृतीयसंस्थानसंहननयोर्जघन्यतः सप्त सागरोपमस्य पञ्चत्रिंशद्भागाः पल्योपमासङ्घयेयभागहीना उत्कर्षतस्त एव परिपूर्णाः, लोहितवर्णकषायरसयोर्जघन्यतः षट् सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्घयेयभागहीना उत्कर्षतस्त एव परिपूर्णाः, हारिद्रवर्णाम्लरसयोर्जघन्यतः पञ्च सागरोपमस्याष्टाविंशतिभागाः पत्योपभासङ्घयेयभागहीनाः उत्कर्षतस्त एव परिपूर्णाः, नीलवर्णकदुरसयोः सप्त सागरोपमस्याष्टाविंशतिभागाः पल्योपमासङ्घयेयभागोनाः उत्कर्षतस्त एव परिपूर्णाः, नपुंसकवेदभयजुगुप्सा शोकारतितिर्यगौदारिकद्विकचरमसंस्थानचरमसंहननकृष्णवर्णतिक्तरसागुरुलघुपराघातो च्छ्वासोपघातत्रसबादरपर्याप्तप्रत्येकास अथिराशुभदुर्भगदुः स्वरानादेयायशः कीर्त्तिस्थावरातपोद्योताशुभविहायोगतिनिर्माणैकेन्द्रियजातिपञ्चेन्द्रियजातितैजसकार्मणानां जघन्यतो द्वौ सागरोपमस्य सप्तभागौ पल्योपमासङ्घयेयभागहीनी उत्कर्षतस्तावेव परिपूर्णाविति, १९७ नरकद्विकदेवद्विकवैक्रियचतुष्टयाहारकचतुष्टयतीर्थङ्करनाम्नां त्वेकेन्द्रियाणां न बन्धः, आयुश्चिन्तायामपि एकेन्द्रिया देवायुनैरयिकायुर्वा न बध्नन्ति, तथा भवस्वाभाव्यात्, किन्तु तिर्यगायुर्मनुष्यायुर्वा, तदपि बध्नन्तो जघन्यतोऽन्तर्मुहूर्तं बध्नन्ति, उत्कर्षतः पूर्वकोटिप्रमाणं साधिक, केवलमुत्कृष्टं चिन्त्यते इत्येकेन्द्रिया द्वाविंशतिर्वर्षसहस्रप्रमाणायुषः स्वायुषश्च त्रिभागावशेषे परभवायुर्बध्नन्तः परिगृह्यन्ते इति सप्तवर्षसहस्राणि वर्षसहस्रत्रिभागोत्तराण्यधिकानि लभ्यन्ते, ततो भवति तिर्यगायुर्मनुष्यायुश्चिन्तायां सूत्रोक्तं परिमाणमिति । उक्तमेकेन्द्रियबन्धकानधिकृत्य जघन्यत उत्कर्षतश्च स्थितिपरिमाणं सम्प्रति द्वीन्द्रियानधिकृत्य तमभिधित्सुराह मू. (५४३) बेइंदिया णं भंते! जीवा नाणावरणिजस्स कम्पस्स किं बंधंति ?, गो० ! जह० सागरीवमपणवीसाते तिन्नि सत्तभागा पलितोवमस्स असं० ऊणया उ० ते चेव पडिपुन्ने बंधंति, एवं निद्दापंचगस्सवि, एवं जहा एगिंदियाणं भणितं तहा बेइंदियाणवि भाणितव्वं, नवरं सागरोवमपणवीसाए सह भाणितच्या पलितोवमस्स असंखेज्जतिभागेणं ऊणा सेसा (उ०) तं चेव पडिपुन्नं बंधंति, जत्थ एगिंदिया न बंधति तत्थ एतेवि न बंधति, बेइंदिया णं भंते! जीवामिच्छत्तवेयणिज्जस्स किं बंधति ?, गो० !, जह० सागरोवमयणुवीसं पलिओवमस्स असंखेज्जइभागेण ऊणयं उक्कोसेणं तं चेव पडिपुण्णं बंधति, तिरिक्खजोणियाउयस्स जह० सागरोवमयणुवीसं पलिओवमस्स असंखेज्जइभागेण ऊणयं उक्कोसेणं तं चेव पडिपुण्णं बंधति, तिरिक्खजोणियाउयस्स जह० अंतो० उक्को० पुव्वकोडिं चउहिं वासेहिं अहियं बंधति, एवं मणुयाउयस्सवि, सेसं जहा एगिंदियाणं जाव अंतराइयस्स । Jain Education International For Private & Personal Use Only 2 www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy