________________
999
पर्द-२३, उद्देशकः-१, द्वारं
_ 'एसणंगोयम' इत्याधुपसंहारवाक्यं, 'नीयागोयस्सणं भंते!' इत्यादिसप्रश्नसूत्रप्राग्वत्, निर्वचनमष्टविधोऽनुभावः, तमेवाष्टविधमनुभावं दर्शयति-'जाइविहीणया' इत्यादि, सुप्रतीतं, 'जं वेएइ पुग्गल मिति यं वेदयते पुद्गलं नीचकर्मोसेवनरूपं नीचपुरुषसम्बन्धलक्षणं वा, तथाहि-उत्तमजातिसम्पन्नोऽपि उत्तमकुलोत्पन्नोऽपि यदि नीचैःकर्मवशात् यथा (अधम) जीविकारूपमासेवतेचाण्डालीं वागच्छति तदाभवति चाण्डालादिरिवजनस्य निन्धः, बलहीनता सुखशयनीयादिसम्बन्धतःस्वपविहीनता कुत्सितवनादिसम्बान्धात्तपोविहीनतापार्श्वस्थादिसंसर्गात् श्रुतविहीनता विकथापरसाध्वाभासादिसंसर्गात् लाभविहीनता देशकालानुचितकुक्रयाणकसम्पर्कतः ऐश्वर्यविहीनता कुग्रहकुकलत्रादिसम्पर्कत इति 'पुग्गले' इति यान् बहून् पुद्गलान् वेदयतेयंवापुद्गलपरिणामवृन्ताकीफलाद्याहारपरिणामरूपं, वृन्ताकीफलं ह्यभ्यवहतंकण्डूत्युत्पादनेन रूपविहीनतामापादयतीत्यादि, विश्रसया वा पुद्गलानां परिणाम अभिहितजलदागमविसंवादलक्षणं वेदयते, तमभावात्, नीचैःकर्म वेदयते, नीचैःकर्मफलं जात्यादिविहीनतारूपं वेदयते इत्यर्थः, एतावता परत उदय उक्तः, सम्प्रतिस्वत उदयमाह-'तेसिंवा उदएणति तेषां वा-नीचैर्गोत्रकर्मपुद्गलानामुजयेन जात्यादिविहीनतामनुभवति, “एस णं गोयमा !' इत्याधुपसंहारवाक्यं,
'अतरायस्स णं भंते !' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेवपञ्चविधत्वं दर्शयति-'दानंतराए' इत्यादि, दानस्यान्तरायो-विघ्नः दानान्तरायः, एवंसर्वत्र भावनीयं, तत्र दानान्तरायो दानान्तरायस्य कर्मणः फलं लाभान्तरायादयो लाभान्तरायादिकर्मणामिति 'जं वेएइ पुग्गलं वा' इत्यादि, यं वेदयते पुद्गलं तथाविधविशिष्टरत्नादिलक्षणं, तथाहि-प्रतिविशिष्टरलादिसम्बन्धात् श्यते तद्विषये एव दानान्तरायोदयः सन्धिच्छेदनाधुपकरणसम्बन्धाल्लाभान्तरायकर्मोदय, प्रतिविशिष्टाहारसम्बन्धादनर्धार्थसम्बन्धाद्वा लोमतो भोगान्तरायोदयः एवमुपभोगान्तरायकर्मोदयोऽपि भावनीयः, तथालकुटादिअभिघाताद्वीर्यान्तरायकर्मोदय इति, ___'पुग्गले वा' बहून् तथाविधान् यान् पुद्गलान् वेदयते यं वा पुद्गलपरिणामंतथाविधाहारौषध्यादिपरिणामरूपं, तथाहि-श्यते तथाविधाहारौषधपरिणामाद्वीर्यान्तरायकर्मोदयः मन्त्रापसिक्तवासादिगन्धपुद्गलपरिणामात्, भोगान्तरायादयो यथा सुबन्धुसचिवस्य, विनसया वायंपुद्गलानां परिणामं चित्रंशीतादिलक्षं, तथाहि-दृश्यन्ते वस्त्रादिकंदातुकामा अपिशीतादि निपतन्तमालोक्य दानान्तरायादयात् तस्यादातार इति तत्प्रभावात्, एष परत उदय उक्तः,स्वतस्तमाह-'तेसिं वा उदएणं ति तेषां वा-अन्तरायकर्मपुद्गलानामुदयेन अन्तरायकर्मफलं दानान्तरायादिकं वेदयते- 'एस 'मित्याधुपसंहारवाक्यम् ।
पदं - २३, उद्देशकः- समाप्तम्
-: पदं-२३, उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, इदानीं द्वितीयो व्याख्येयः, तस्य चायमभिसम्बन्धः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org