________________
पदं- २२, उद्देशक:-, द्वारं -
१६१
भूता देशविरतिं यावदासामवश्यंपभावात्, उत्तराभ्यां तु द्वाभ्यां स्याद्वादः, तमेव दर्शयति- 'जस्स एयाओ कज्ञ्जंति' इत्यादि, देशविरतस्य न भवतः शेषस्य भवत इति भावः, यस्य पुनः उपरितन्यौ द्वेक्रिये तस्याद्यास्तिस्रो नियमाद्भवन्ति, उपरितन्यौ हि क्रिये अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च, तत्राप्रत्याख्यानक्रिया अविरतसम्यग्दृष्टिं यावत् मिथ्यादर्शनक्रिया मिथ्यादृष्टेः आद्याश्वतस्प्रे देशविरतिं यावत् अत उपरितन्योर्भावेऽवश्यमाद्यानां तिसृणां भावः, सम्प्रति अप्रत्याख्यानक्रियया मिथ्यादर्शनक्रिययास्तिर्यक्पञ्चेन्द्रियस्य परस्परमविनाभावं चिन्तयति
'जस्स अपच्चक्खाणकिरिया' इत्यादि भावितं, मनुष्ये यथा जीवपदे तथा वक्तव्यं, व्यन्तरज्योतिष्कवैमानिकानां यथा नैरयिकस्य, एवमेव एको दण्डकः, 'एवमेव जं समयं णं भंते जीवस्से' त्यादिको द्वितीयः, 'जं देसण्ण' मित्यादिकः तृतीयः, 'जं पएसण्ण' मित्यादिकश्चतुर्थः । अथ षट् कायाः प्राणातिपातक्रियाहेतव एव भवन्ति किं वा तद्विरमणहेतवोऽपीति पृच्छति
मू. (५३१) अत्थि णं भंते! जीवाणं पाणातिवायवेरमणे कज्जति ?, हंता ! अत्थि, कम्हि णं भंते! जीवाणं पाणातिपातवेरमणे क० ?, गो० ! छसु जीवनिकाएसु, अत्थि णं भंते! नेरइयाणं पाणातिवातवेरमणे क० ?, गो० ! नो इणट्टे समट्ठे, एवं जाव वेमाणियाणं, नवरं मणूसाणं जहा जीवाणं, एवं मुसावाएणं जाव मायामोसेणं,
जीवरस य मणूसस्स य, सेसाणं नो तिणट्टे समट्टे, नवरं अदिशादाणे गहणधारणिजेसु दव्वेसु, मेहुणे रूवेसु वा रूवसहगएसु वा दव्वेसु, सेसाणं सव्वेसु दव्धेसु,
अत्थि णं भंते! जीवाणं मिच्छादंसणसल्लवेरमणे कज्जति ?, हंता ! अत्थि, कम्हि णं भंते जीवाणं मिच्छादंसणसल्लवेरमणे कजति ?, गो० ! सव्वदव्वेसु, एवं नेरइयाणं जाव वेमाणियाणं, नवरं एगिंदियविगलेदियाणं नो तिणट्टे समट्टे
वृ. 'अत्थि णं भंते!' इत्यादि, सर्वत्र क्रियते कर्मकर्त्तरिप्रयोगः ततो भवतीति द्रष्टव्यः, प्राणातिपातादिविरमणविषयाश्च षट् कायादयः प्रागेव भाविता इति न भूयो भाव्यन्ते, विरतिश्च प्राणातिपातादीनां मायामृषापर्यन्तानां जीवपदे मनुष्यपदे वक्तव्या, शेषेषु स्थानेषु नायमर्थः समर्थ इति वक्तव्यं, तेषां भवप्रत्ययतः सर्वविरत्यसम्भवात्, मिध्यादर्शनविरमणविषयचिन्तायां सर्वद्रव्येष्विति उपलक्षणमेतत् सर्वपर्यायेष्वपि, अन्यथा एकस्मिन् द्रव्ये पर्याये वा मिथ्यात्वभावे मिथ्यादर्शनविरमणासम्भवात्,
119 11
“सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्याष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥”
इति वचनात्, मिथ्यादर्शन शल्यविरमणं च एकेन्द्रियविकलेन्द्रियवर्जेषु स्थानेषु, शेषेषु एकेन्द्रियादिषु न भवति, कस्मादिति चेत्, उच्यते, पृथिव्यादिषु 'उभयाभावो पुढवाइएसु' प्रतिपद्यमानप्रतिपन्नाभावः पृथिव्यादिषु इति वचनात्, द्वीन्द्रियादीनां तु यद्यपि करणापर्याप्ताव्यायां केषाचित् सासादनसम्यकत्वं भवति तथापि तत् मिथ्यात्वाभिमुखानां तत्प्रतिकूलानामतस्तेषामपि मिथ्यादर्शनशल्यविरमण प्रतिषेधः, आह च-- 'अत्थि णं भंते! जीवाणं मिच्छादंसणसल्लवेरमणे कज्जइ' इत्यादि, अथवा प्राणातिपातवि- रतस्य कर्मबन्धो भवति किं वा नेति चेत्, उच्यते, भवत्यपि
11 11
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org