SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ पदं - २२, उद्देशक:-, द्वारं एवं भङ्गत्रयेणासुरकुमारादयोऽपि तावद्वक्तव्याः यावत् स्तनितकुमाराः, पृथिव्यप्तेजोवायुवनस्पतिकायिका यथा सामान्यतो जीवा उक्तास्तथा वक्तव्याः, उभयत्रापि बहुवचनेनैक एव भङ्गो वक्तव्य इति भावः, पृथिव्यादीनां हिंसापरिणामपरिणातानां प्रत्येकं सप्तविधबन्धकानामष्टविधबन्धकानां च सदैवं बहुत्वेन लभ्यमानत्वात्, शेषा द्वित्रिच - तुरिन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्यव्यन्तरज्योतिष्कवैमानिका यथा नैरयिका भङ्गत्रिकेणोक्तास्तथा वक्तव्याः, यथा च प्राणातिपातेनैकत्वपृथकत्वाभ्यां द्वी दण्दकावृक्तावेवं सर्वपापस्थानैरपि प्रत्येकं द्वौ द्वौ दण्डकौ वक्तव्यौ, तथा चाह--"जाव मिच्छादंसणसल्लेणं' ति सर्वसङ्ख्यया कियन्तो दण्डका भवन्तीति चेत्, अत आह- 'एवं एगत्तपोहत्तिया छत्तीसं दंडगा होति' अष्टादशानां द्वाभ्यां गुणने षट्त्रिशद्भावात् । 'जीवे णं भंते' इत्यादि, अथ कोऽस्य सूत्रस्यापि सम्बन्धः ?, उच्यते, इह प्रागुक्तं जीवः प्राणातिपातेन सप्तविधमष्टविधं वा कर्म बध्नाति, स तु तमेव प्राणातिपातं ज्ञानावरणीयादि कर्म बध्नन् कतिभिः क्रियाभिः समापयतीति प्रतिपाद्यते, अपिच - कार्येण ज्ञानावरणीयाख्येन कर्मणा कारणस्य प्राणातिपाताख्यस्य निवृत्तिभेद उपदर्श्यते, तद्येदाच्च बन्धविशेषोऽपीति, उक्तं च|| 9 || "तिसृभिश्चतृभिरथ पञ्चभिश्च हिंसा समाप्यते क्रमशः । बन्धोऽस्य विशिष्टः स्याद्योगप्रद्वेषसाम्यं चेत् ॥” इति, तमेव प्राणातिपातस्य निवृत्तिभेदं दर्शयति- सिय तिकिरिए' इत्यादि, स्यात्कदाचित्रिक्रियः कदाचिच्चतुष्क्रिय; कदाचित् पञ्चक्रियः, तत्र त्रिक्रियता कायिक्याधिकरणिकीप्राद्वेषिकीभिः क्रियाभिः, कायिकी नाम हस्तपादाददिव्यापारणं आधिकरणिकी खङ्गादिप्रगुणीकरणं प्रादेषिकी मारयाम्येनमित्यशुभमनः सम्प्रधारणमिति, चतुष्क्रियता कायिक्याधिकरणिक्रीप्राद्वेषिकीपारितापनिकीभिः, पारितापनिकी नाम खङ्गादिधातेन पीडाकरणं, पञ्चक्रियता यदा प्राणातिपातक्रियाऽपि पञ्चमी भवति, प्राणातिपातक्रिया जीविताद् व्यपरोपणं, एवं नैरयिकादारभ्य चतुर्विंशतिदण्डकक्रमेण तावद् वक्तव्यं यावद्वैमानिकसूत्र, सूत्रपाठस्तेववम् 'नेरइए णं भंते! नाणावरणिज्जं कम्मं बंधमाणे कइकिरिए पं०' इत्यादि, तदेवमेकत्वेन दण्डक उक्तः, सम्प्रति बहुत्वेनाह- 'जीवाणं भंते!' इत्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौतम जीवास्त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि किमुक्तं भवति ? - जीवाज्ञानावरणीयं कर्म बध्नन्तः सदैव बहव इति त्रिक्रिया अपि चतुष्क्रिया अपि पञ्चक्रिया अपि लभ्यन्ते इत्येक एव भङ्गः, यथा च सामान्यतो जीवपदेऽ भङ्गकं तथा नैरयिकादिषु चतुर्विंशती स्वस्थानेषु प्रत्येकमभ्गकं द्रष्टव्यं, नैरयिकादीनामपि ज्ञानावरणीयकर्मबध्नतः सदैव त्रिक्रियाणामपि चतुष्क्रियाणामपि पञ्चक्रियाणामपि बहुत्वेन लभ्यमानत्वात्, यथा च ज्ञानावरणीयं कर्माधिकृत्य एकत्वपृथकत्वाभ्यां द्वौ दण्डकावुक्तौ तथा दर्शनावरणीयादीन्यपि कर्माण्यधिकृत्य प्रत्येकं द्वौ at दण्डकी वक्तव्यौ, तत एवं सति सर्वसङ्ख्यया षोडश दण्डका । 'जीवे णं भंते! जीवातो कतिकिरिए पं०' इति, अथ कोऽस्य सूत्रस्य सम्बन्धः ?, उच्यते, इह न केवलं वर्त्तमानभववर्त्तिनो जीवस्य ज्ञानावरणीयादिकर्मबन्धभेदप्ररूपणे कायिक्यादिक्रियाविशेषणः प्राणातिपादभेदो भवति, किन्त्वतीतभवकायसम्बन्धः कायिक्यादिक्रियाविशेष Jain Education International For Private & Personal Use Only १५३ www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy