________________
१२४
प्रज्ञापनाउपाङ्गसूत्रम्-२-२१/-1-1५११ अप्कायिकानां सूक्ष्मादिभेदतःचतुर्भेदानामौदारिकशरीराणि स्तिबुकबिन्दुसंस्थानसंस्थितानि, स्तिबुकाकारोयो बिन्दुर्नपुनरितस्ततोवातादिनाविक्षिप्तः स्तिबुकबिन्दुस्तस्येवयत्संस्थान तेन संस्थितानि, तैजसकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणि सूचीकलापसंस्थानसंस्थितानि, .
वायुकायिकानां सूक्ष्मादिभेदतश्चतुर्भेदानामौदारिकशरीराणिपताकासंस्थानसंस्थितानि,
वनस्पतिकायिकानां सूक्ष्माणांबादराणांपर्याप्तानामपर्याप्तानांच प्रत्येकमौदारिकशरीराणि नानासंस्थानसंस्थितानि, देशकाजलातिभेदतः तेषां संस्थानानामनेकभेदभिन्नत्वात्,
द्वित्रिचतुरिन्द्रियाणांप्रत्येकंपर्याप्तानामपर्याप्तानामौदारिकशरीराणि हुंडसंस्थानसंस्थितानि,
तिर्यक्पश्चेन्द्रियौदारिकशरीरं सामान्यतः षड्विधसंस्थानसंस्थितं, तदेवोपदर्शयति'समचउरंससंठाणसंठिए' इत्यादि, यावत्करणात् 'नग्गोहपरिमंडलसंठाणसंठिए साइसं० वामणसं० खुजसंठाणसंठिए हुंडसंठाणसंठिए' इति परिग्रहः, तत्र समाः-सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यश्चतम्रोऽस्त्रयः--चतुर्दिग्विभागोपलक्षिताःशरीरावयवा यस्य तत्समचतुरलं, समासान्तोऽत्प्रत्ययः, समचतुरस्रं च तत्संस्थानं च समचतुरस्रसंस्थानं तेन संस्थितं समचतुरससंस्थानसंस्थितं, तथा न्यग्रोधवत्परिमण्डलं यस्य तत् न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तुहीनः तथा यत्संस्थानं नाभेरुपरि सम्पूर्णप्रमाणं अधस्तु नतता तन्न्यग्रोधपररिमण्डलं, तथा आदिरिहोत्सेधाख्यो नाभेरधस्तनोदेहभागो गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तते इति सादि, यद्यपि सर्वं शरीरमादिना सह वर्तते तथापि सादित्वविशेषणान्यथानुपपत्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तं यथोक्तप्रमाणलक्षणेनेति,
इदमुक्तं भवति यत्संस्थानं नाभेरधः प्रमाणोपपत्रमुपरि च हीनं तत्सादीति, अपरे तु साचीतिपठन्ति, तत्रसाची प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततःसाचीव यत्संस्थानंतत्साचिसंस्थानं, यथा शाल्मलीतरोः स्कन्धः काण्डमतिपुष्टमुपरितनातदनुरूपानमहाविशालतातद्वदस्यापि संस्थानस्याधोभागः परिपूर्णो भवति उपरितनभागस्तु नेति, तथा यत्र शिरोग्रीवं हस्तपादादिकं च यथोक्तप्रमाणलक्षणोपेतं उरउदरादि च मडभं तत्कुब्जसंस्थानं, यत्र पुनरुरउदरादि प्रमाणलक्षणोपेतंहस्तपादादकं हीनंतद्वामनसंस्थानं, यत्रतुसर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तद् हुण्डसंस्थान्, समासः सर्वत्रापि पूर्ववत्,
एवं पजत्तापजत्ताणवि' इति, एवं-उक्तप्रकारेण सामान्यतस्तिर्यक्पञ्चेन्द्रियाणामिव पर्याप्तानांअपर्याप्तानांच प्रत्येकं सूत्रं वक्तव्यं, तदेवमेतानि त्रीणि सूत्राणि, एवमेव च सामान्यतः सम्मूर्छिमतिर्यक्पञ्चेन्द्रियाणामपि त्रीणि सूत्राणि वक्तव्यानि, नवरं तेषु त्रिष्वपि सूत्रेषु हुण्डसंस्थानसंस्थितमिति वक्तव्यं, सम्मूर्छिमाणामविशेषेण सर्वेषामपि हुण्डसंस्थानभावात्,
- त्रीणि सामान्यतोगर्भजतिर्यक्पञ्चेन्द्रियाणामपि, नवरंतेषुत्रिष्वपिसूत्रेषु 'छविहसंठाणसंठिए पन्नत्ते' इत्यादि वक्तव्यं, गर्भजेषुसमचतुरस्रादिसंस्थानानामपिसम्भवात्, तदेवमेतेसामान्यतस्तिर्यक्पञ्चेन्द्रियविषया नवआलापकाः,अनेनैवक्रमेणैवजलचरतिर्यपञ्चेन्द्रियाणां सामान्यतः स्थलचराणां चतुष्पदस्थलचराणामुरःपरिसर्पस्थलचराणां भुजपरिसर्पस्थलचराणां खचरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org