SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पदं- १८, उद्देशक:-, द्वारं - १० तिविधे पं०, तं०- अणाइए वा अपजवसिए अणादीए वा सपज्जवसिते सादीए वा सपज्जवसिते, तत्थ णं जे से सादीए सपज्जवसिते से जह०- अंतो० उक्को० अनंतं कालं, अनंताओ उस्सप्पिणिओसप्पिणीओ कालतो खेत्तओ अवडपोग्गलपरियहं देसूणं, विभंगनाणी णं भंते! पुच्छा, गो० ! जहन्नेणं एगं समयं उक्कोसेणं तेत्तीसं सागरोवमाई देसूणाते पुव्वकोडीते अब्भहिताई। बृ. 'नाणी णं भंते' इत्यादि, ज्ञानमस्यास्तीति 'अतोऽनेकस्वारा' दितीन् स द्विधा साद्यपर्यवसितः सादिसपर्यवसितश्च तत्र केवलज्ञानापेक्षया साद्यपरेयवसितः, प्रतिपाताभावात्, शेषज्ञानापेक्षया सादिसर्पयवसितः, शेषज्ञानानां प्रतिनियतकालभावित्वात्, स जघन्येनान्तर्मुहूर्त, परतो मिथ्यात्वगमनेन ज्ञानपरिणामापगमात्, उत्कर्षतः षट्षष्टिसागरोपमाणि सातिरेकाणि यावत्, तानि सम्यग्दृष्टेरिव भावनीयानि, सम्यग्ध्ष्टेरेव ज्ञानित्वात्, १०१ आभिनिबोधिकज्ञानिसूत्रे 'एवं चेव' त्ति यथा सामान्यतो ज्ञानी सादिसपर्यवसितो जघन्यत उत्कर्षतश्चोक्तस्तथाऽऽभिनिबोधिकज्ञान्यपि वक्तव्यः, स चैवं- 'जह० अंतो० उक्को० छावट्ठी सागरोवमाई सातिरेगाई' एवं श्रुतज्ञान्यपि, अवधिज्ञान्यप्येवं, नवरं स जघन्यत एकं समयं वक्तव्यः कथमेकसमयताऽवधिज्ञानस्येति चेत् ?, उच्यते, इह तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वा विभङ्गज्ञानी सन् सम्यकत्वं प्रतिपद्यते, तस्य च सम्यकत्वप्रतिपत्तिसमये एव सम्यकत्वभावतो विभङ्गज्ञानमवधिज्ञानं जातं, तच्च यदा देवस्य च्यवनेन मरणेनान्यस्यान्यथा वाऽनन्तरसमये प्रतिपततति तदा भवत्यवधिज्ञानस्यैकसमयता, उत्कर्षतः सातिरेकाणि षट्षष्टिं सागरोपमाणि यावत्, तानि चाप्रतितितावधिज्ञानस्य वारद्वयं विजयादिषु गमनेन वारत्रयमच्युतदेवलोकगमनेन वा वेदितव्यानि, मनः पर्यवज्ञानिन एकसमयता संयतस्याप्रमत्ताद्वायां वर्त्तमानस्य मनः पर्ययज्ञानमुत्पाद्यानन्तरसमये कालं कुर्वतो भावनीया, उत्कर्षत देशोना पूर्वकोटी, तत ऊर्ध्वसंयमाभावेन मनः पर्यव- ज्ञानस्याप्यभावात्, केवलज्ञानी साद्यसपर्यवसितः, प्रतिपाताभावात्, । अज्ञानी त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽनादिसपर्यवसितः सादिसपर्यवसितश्च, तत्र यस्य कदाचनापि ज्ञानलाभो न भावी सोऽनाद्यपर्यवसितो, यस्तु ज्ञानमासादयिष्यति सोऽनादिसपर्यवसितः यः पुनर्ज्ञानमासाद्य भूयो मिथ्यात्वगमनेनाज्ञानित्वमधिगच्छति स सादिसपर्यवसितः, स च जघन्येनान्तर्मुहूर्त, परतः सम्यकत्वस्यासादनेनाज्ञानित्वपरिणामापगमसम्भवात्, उत्कर्षतोऽनन्तं कालमित्यादि प्राग्वत्, तत ऊर्ध्वमवश्यं सम्यकत्वावाप्तेरज्ञानित्वापगमात्, " एवं मत्यज्ञानी श्रुताज्ञानी च त्रिविधो भावनीयः, विभङ्गज्ञानी जघन्यत एकं समयं कथमिति चेत् ?, उच्यते कश्चित्तिर्यक्पञ्चेन्द्रियो मनुष्यो देवो वासम्यग्धष्टित्वादवधिज्ञानी सन् मिथ्यात्वं गतस्तस्मिंश्च मिथ्यात्वप्रतिपत्तिसमये मिध्यात्वप्रभावतोऽवधिज्ञानं विभङ्गज्ञानीभूतं, "आदायत्रयमज्ञानपि भवति मिथ्यात्वसंयुक्तमिति वचनात्, ततोऽनन्तरसमये देवस्य च्यवनेनान्यस्य मरणेनान्यथा वा तद्विभङ्गज्ञानं परिपतति, तत एवमेकसमयता विभङ्गज्ञानस्य, उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि देशोनपूर्वकोट्यभ्यधिकानि, तथाहि-यदि कश्चिन्मिथ्यादृष्टिस्तिर्यक्पञ्चेन्द्रियो मनुष्यो वा पूर्वकोट्यायुः कतिपयवर्षातिक्रमे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy