________________
प्रज्ञापनाउपाङ्गसूत्रम्-२-१७/५/-/४६९
नीललेश्यारूपतया स्यात्यदिवा प्रतिभागः-प्रतिबिम्बमादर्शादाविव विशिष्टः प्रतिबिम्ब्यवस्तुगत आकारः प्रतिभागएवप्रतिभागमात्रा तया, अत्रापिमात्राशब्दः प्रतिबिम्बातिरिक्तपरिणामान्तरव्युदासार्थः स्यात्कृष्णलेश्या नीललेश्यारूपतया, परमार्थतः पुनः कृष्णलेश्यैवनोखलुनीललेश्या सा, स्वस्वरूपापरित्यागात्, न खल्वादर्शादयोजपाकुसुमादिसन्निधानतस्तत्प्रतिबिम्बमात्रामादधाना नादर्शादय इति परिभावनीयमेतत्, केवलं साकृष्णलेश्या तत्र-स्वस्वरूपे गता--अवस्थिता सती उत्ष्वष्कते तदाकारभावमात्रधारणतस्तव्यतिबिम्बमात्रधारणतो वोत्सर्पतीत्यर्थः,कृष्णलेश्यातो हि नीललेश्या विशुद्धा ततस्तदाकारभावं तत्प्रतिबिम्बमात्रं वा दधाना सती मनाक् विशुद्धा भवतीत्युत्सर्पतीति व्यपदिश्यते, उपसंहारवाक्यमाह- से एएणतुण मित्यादि, सुगमं ।। ____एवं नीललेश्यायाः कापोतलेश्यामधिकृत्य कापोतलेश्यायास्तेजोलेश्यामधिकृत्य तेजोलेश्यायाः पद्मलेश्यामधिकृत्य पद्मलेश्यायाः शुक्ललेश्यामधिकृत्य सूत्राणि भावनीयानि, सम्प्रति पद्मलेश्यामधिकृत्य शुक्ललेश्याविषयं सूत्रमाह--
से नूनं मंते ! सुक्कलेसा पम्हलेसं पप्प' इत्यादि, एतच प्राग्वद् भावनीयं, नवरं शुक्ललेश्यापेक्षया पद्मलेश्या हीनपरिणामा ततःशुक्ललेश्या पद्मलेश्याया आकारभावंतत्प्रतिबिम्बमात्रं वा भजन्ती मनागविशुद्धा भवति ततोऽवष्वष्कते इति व्यपदिश्यते, एवं तेजःकापोतनीलकृष्णलेश्याविषयाण्यपि सूत्राणिभावनीयानि, ततः पद्मलेश्यामधिकृत्य तेजःकापोतनीलकृष्णलेश्याविषयाणि तेजोलेश्यामधिकृत्य कापोतनीलकृष्णविषयाणि कापोतलेश्यामधिकृत्य नीलकृष्णलेश्याविषये नीललेश्यामधिकृत्य कृष्णलेश्याविषयमिति, अमूनि च सूत्राणि साक्षात् पुस्तकेषुनश्यन्ते केवलमर्थतः प्रतिपत्तव्यानि, तथा मूलटीकाकारेण व्याख्यानात्, तदेवं यद्यपि देवनैरयिकाणामवस्थितानि लेश्याद्रव्याणितथापितत्तदुपादीयमानलेश्यान्तरद्रव्यसम्पर्कतः तान्यपि तदाकारभावमात्रां भजन्ते इति भावपरावृत्तियोगतः षडपि लेश्या घटन्ते, ततः सप्तमनरकपृथिव्यामपि सम्यकत्वलाभ इति न कश्चिद्दोषः ।।
पदं - १७, उद्देशकः-५ - समाप्तः
- पदं-१७, उद्देशकः-६:वृ. तदेवमुक्तः पञ्चमोद्देशकः, सम्प्रति षष्ठ उच्यते, तस्य चेदमादिसूत्रम्
म.(७०) कति णं भंते! लेसा पन्नत्ता?, गोयमा! छलेसा पत्रत्ता, तंजहा-कण्ह० जाव सुक्कलेसा, मणुस्साणं भंते! कइलेसापं०?, गो०! छलेस्साओ पं०, तं०-कण्हलेसाजाव सुक्कलेसा मणुस्सी गं भंते ! पुच्छा, गो०! छल्लेस्साओ पं०, तं०-कण्हा जाव सुक्का ॥
कम्मभूमयमणुस्साणं भंते ! कइ लेसाओ पं०?, गो०! छ ले० पं०, तं०-कण्हा जाव सुक्का, एवं कम्मभूमयमणुस्सीणवि । भरहेरवयमणुस्साणं भंते ! कति लेसाओ पं०?, गो० ! छले० पं०, तं०-कण्हा जाव सुक्का, एवं मणुस्सीणवि,
...अकम्मभूमयमणुस्साणं पुच्छा, गो० ! चत्तारि लेसाओ पं०, तं०-कण्हा जाव तेउ०, एवं अकम्मभूमिगमणुस्सीणवि, एवं अंतरदीवमणुस्साणं मणुस्सीणवि,
एवं हेमवयएरनवयअकम्मभूमयमणुस्साणं मणूस्सीण य कइ लेसाओ पं०?, गो० ! चत्तारि, तं०-कण्हा जाव तेउ०, हरिवासरम्मयअकम्मयभूमयमणुस्साणं मणुस्सीण य पुच्छा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org